अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 768, कुल 2600 में से
संदर्भ में पढ़ेंयमानो जीव एवाऽमृताऽभयरूपो निरूपितः । तस्यैवोदशरावे जाग्रत्साक्षित्वं, तदनु स्वप्नसाक्षित्वं, तदनु सुषुप्तिसाक्षित्वं निरूप्य सर्वत्र तस्याऽमृतरूपत्वमेव निरूप्यावस्थानाम तात्त्विकत्वमुक्त्वा समाध्यवस्थायां मनसि तमेव जीवं तादृशं भाष्यप्रकाशः । मानत्वात्, 'य एषोऽक्षिणि पुरुषो दृश्यते' इत्यत्रोपदिश्यमाने तस्मिन् । नन्वग्रे, योऽयं भगवो- ऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति प्रश्ने, एष उ एवैषु सर्वेष्वन्तरेशु परिख्यायत इति प्रत्युत्तरात् प्रतिबिम्बपुरुष एवात्र प्रतीयत इति कथमस्य मनसि प्रतीयमानजीवरूपत्वमि- त्यत आह तस्येत्यादि । यदि हि प्रतिबिम्बमात्रैवात्रोपदेश्यः स्यात् तदा, उदशरावे आत्मा- नमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमित्यनेन यत्संबन्धिप्रतिबिम्बे अज्ञातं तत्सात्मत्वं बोधितम् । ततस्ताभ्यामुदशरावेऽवेक्षणेन शरीरस्यात्मत्वे स्वज्ञानविषये बोधिते ततोऽपि निवार्य जाग्रत्साक्षिणं मनस्संहविष्या प्रतीयमानं बोधयितुं साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोद- शरावेऽवेक्षेथामित्यादिना, एष आत्मेति वाक्येन द्रष्टात्मा बोधितः । ततस्तावता तदज्ञाने देहा- रश्मिः । देशान्तरव्यवहितवस्तुज्ञाने हेतुत्वात् । तस्मिन्निति दिव्ये चक्षुषि । प्रतीयमान इत्यादिभाष्यसम- न्वेति एष उ एवेति प्रतिबिम्बपुरुषः । अन्तेष्विति मध्येषु । तस्येत्यादीति जीवस्य । उवेति उदकसंबन्धिशरावे आत्मानमवेक्ष्य यत्तत्रात्मानं पश्यन्तौ युवां इन्द्रविरोचनौ आत्मा देहस्तत्संबन्धि जीवादि न विजानीथस्तन्मे प्रब्रूतमित्यर्थः । यत्समिति आत्मोपनिषदि आत्मपदस्य देहादित्रिषु शक्तिः तत्र यद्देहरूपामत्संबन्धिवस्तु देहप्रतिबिम्बेऽज्ञातम् । प्रतिबिम्ब अज्ञातमिति स्मार्तः प्रयोगः । तस्येति जीवरूपस्य तन्मे प्रब्रूतमित्यनेन बोधितम् । अग्रेतनसंदर्भे जीवनिरूपणात् । बोधितेति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्यः आनखेभ्यः प्रतिरूपमित्यनया । बोधेति यथा साध्वलंकारादिपिहितात्मावेक्षणेन देहेऽज्ञातस्तथा देहप्रतिबिम्बेऽज्ञातो जीवः आत्मेत्येवं बोधयितुम् । इत्यादिनेति इति तौ साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वा उदशरावे अवेक्षां- चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृताविलेष बात्मेति होवाचेति श्रुतिसंग्रहः । स्पष्टम् । द्रष्टेति जीवप्रसङ्गान्मायिकं द्रष्टृत्वं विवक्षितम् । यद्वाविर्भूतः स्वरूपो वक्ष्यत इति 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति श्रुतेः। 'भुङ्क्ते गुणान् षोडश षोडशात्मकः' इति श्रीभागवताच्च द्रष्टात्मा तत्तदिन्द्रियरूपं स्वयं ताभ्यां युक्तमात्मा भोक्ता । यथा विषयेन्द्रियमनोभिर्युक्तमुजेयम् । आत्मा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेन ततः प्रत्यक्षमिति नैयायिकप्रक्रियास्थले वेदान्तिनामिव मतत इति । द्रष्ट्रात्मना बोधनादनुमाना- दित्या तस्य देहलिङ्गविलक्षणस्य शुद्धात्मनोऽज्ञाने तावतेति वाक्यालंकारे । आकृतिगणत्वात् मनोरमायामदर्शनात् यावत्तावद्वाग् वा भागुरिमते तदा यावत्तावदेतौ साकल्यावधिमानावधारणार्थों इतीमावपि तदर्थकौ 'यावत्ता च परिच्छेदे' इति विश्वः। देहात्मेति उभयदेहात्मेत्यर्थः। तौ हान्वीक्ष्य प्रजापतिस्वाचाऽनुपलभ्यात्मानमननुविद्य प्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्त्यनेन पराभवं तस्मादद्यापीहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यनेनाऽसुरत्वं च । क्षुद्रर्वस्तु एवमपि देहमेवात्मानं मत्वा गच्छन्तौ ज्ञात्वा तयोरनिष्टशङ्कया भावयन् प्रजापतिस्वाचाऽनुप- लभ्य वाच्चावार्थाभ्यामाज्ञात्वाऽननुविद्य सप्रलक्ष्यगोचरं चाकृत्यात्मानं विपरीतानौ प्रजतोतो यतरे ये