अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 774, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५८१ रश्मिः। आनन्दमात्रमिति यद्वदन्तीह पुराविदः । तद्रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥ श्रुत्वैतद्दर्शयामास स्वं लोकं प्रकृतेः परम् । केवलानुभवानन्दमात्रमक्षरमव्ययम् ॥ यत्र वृन्दावनं नाम वनं कामदुधैर्द्रुमैः । मनोरम निकुञ्जाढ्यं सर्वर्तुसुखसंयुतम् ॥ यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः । रत्नधातुमयः श्रीमान् सुपक्षिगणसंकुलः ॥ यत्र निर्मलमानीया कालिन्दी सरितां वरा । रत्नबद्धोभयतटी हंसपद्मादिसंकुला ॥ नानारसरसोन्मत्तं यत्र गोपीकदम्बकम् । तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः ॥ दर्शयित्वेति च प्राह श्रुत किं करवाणि वः । दृष्टो मदीयो लोकोयं यतो नास्ति परं वरम् ॥ श्रुतय ऊचुः- कन्दर्पकोटिलावण