अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 78, कुल 2600 में से
संदर्भ में पढ़ेंयः स्यात्सर्वत्र सर्वदा'' इत्यादि श्रीमद्भागवतवाक्यान्निर्णयः। एवं चतुर्णां प्रस्थानानामेक- वाक्यत्वम्। अत्राचार्यैः समग्रस्य वेदस्योभयकाण्डात्मकस्य प्रामाण्यं स्वीकृतम् न तु 'वेदान्तो नाम उपनिषत्प्रमाणम्' इतिवत् केवलस्य उपनिषद् भागस्येति ज्ञेयम्। "वेदस्याक्षरमात्रस्यान्यथा कल्पनेऽपि दोषः स्यात्" इत्याचार्याः। तथा च — वेदोक्तादणुमात्रेऽपि विपरीतं तु यद्भवेत्। तादृशं वा स्वतन्त्रं च उभयं मूलतो मृषा॥ (अ. भा. का.) तथा च — यज्ञरूपो हरिः पूर्वकाण्डे ब्रह्मतनुः परे। अवतारी हरिः कृष्णः श्रीभागवत ईर्यते॥ (शा.प्र. ११) अग्निहोत्रं तथा दर्शपूर्णमासः पशुस्तथा। चातुर्मास्यानि सोमश्च क्रमात् पञ्चविधो हरिः॥ (तत्व. २।२) असन्दिग्धोऽपि वेदार्थः स्थूणाखननवन्मतम्। मीमांसानिर्णयः प्राज्ञे दुर्बुद्धेस्तु ततो द्वयम्॥ जैमिनिः कर्मतत्त्वज्ञो निर्णयं पूर्व उक्तवान्। व्यासः स्वयं हि सर्वज्ञ उत्तरे निर्णयं जगौ॥ (तत्व. २।२९-३०) पुराणविषये आचार्याणां श्रद्धा — पुराणं वेदवत् पूर्वसिद्धं सर्वोपयोगि तत्' (तत्व. २।४८) महाभारतविषये — "सर्वनिर्द्धारणार्थाय व्यासो भारतमुक्तवान्" (तत्व. २।५७) ज्योतिषविषये — "दर्शादिकालनिर्द्धारो ज्योतिः शास्त्रफलं स्मृतम्" (तत्व. २।७५) व्याकरणविषये — "व्याकृतिः पाणिनीयं हि प्रातिशाख्यं तु शब्दगम्" (तत्व. २।७७) lxv