अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 79, कुल 2600 में से
संदर्भ में पढ़ेंआयुर्वेदादिविषये — "आरोग्ये धर्मसिद्धिः स्याद्रक्षा च धनुषो भवेत् उद्वेगहानिर्गान्धर्वे स्थापत्यं च गृहादिषु । काव्यादीनामसत्यत्वान्नोपयोगः कथञ्चन । धर्मे कर्तुः क्वचित् कीर्त्तिर्नैपुण्यं पाठतः क्वचित् । (तत्व. २।७९-८०) रामायणविषये — "रामायणमनन्तं हि पुराणमिव सन्मतम् व्यासः पूर्वमनेकोक्तो वाल्मीकिः साम्प्रतं किल । समाधिभाषया प्राह प्रमाणं सर्वथैव तत् । (सर्व.प्र. ८१) एवं सर्वशास्त्राणां विषये श्रीवल्लभाचार्याणां मतमुपरि संक्षेपेण स्पष्टीकृतम् । संन्यासविषये—कलिदोषात्कर्ममार्गे ज्ञानमार्गे च संन्यासो न कर्त्तव्यः, किन्तु पश्चात्तापनिवृत्यर्थं भक्तिमार्गे कर्तव्यः। भगवद्विरहानुभवैकार्थः परित्यागः प्रशस्यते । इत्यादिकं सर्वं आचार्यैः स्वकृतसन्यासनिर्णयग्रन्थे विस्तरेण विवृतम् । एवं कर्मज्ञानमार्गापेक्षया भक्तिमार्गे आचार्याणां समादरः विशेषः सिद्ध्यति । भाष्येऽस्मिन् आचार्याणां मायावादि खण्डने अतीव निर्बन्धः। बौद्धमतखण्डनप्रसङ्गेऽपि मायावादिखण्डनं निर्दिश्यते । ब्रह्मसूत्रे अन्ये आचार्याः (१) "अथातो ब्रह्मजिज्ञासा" (२) "जन्माद्यस्य यतः" (३) "शास्त्रयोनित्वात्" (४) "तत्तु समन्वयात्" इति सूत्रचतुष्टयात्मिकां चतुःसूत्रीं स्वीकुर्वन्ति । तथाहि श्रीवल्लभाचार्याः (१) अथातो ब्रह्मजिज्ञासा (२) जन्माद्यस्य यतः शास्त्रयोनित्वात् (३) तत्तु समन्वयात् इति सूत्रत्रयात्मिकां त्रिसूत्रीं स्वीकुर्वन्ति । श्रीवल्लभाचार्याणां मते 'जन्माद्यस्य यतः शास्त्रयोनित्वात्' इत्यभिन्नमेव सूत्रं वर्तते । इदमणुभाष्यम् तृतीयाध्यायद्वितीयपादस्य चतुःत्रिंशत् (३४) सूत्रतः प्राक् श्रीमद्वल्लभाचार्य- रचितम् । तदनन्तरं श्रीविठ्ठलनाथानां कृतिः। प्राक्तनभाष्येऽपि 'आनन्दमयाधिकरणे' द्वितीयवर्णकं श्रीविठ्ठलेशरचितमेव । इत्यत्र भाष्यप्रकाशरचयितॄणां श्रीपुरुषोत्तमानामुक्तिरेव प्रमाणम् । तथा हि—"इत आरभ्य प्रभूणामिति (श्रीविठ्ठलेशानाम्) प्रतिभाति" इति "स्थानविशेषा- त्प्रकाशादिवत्" (ब्र.सू. ३।२।३४) इति सूत्रभाष्यप्रकाशेऽल्लिखितम् । तथा च "साम्प्रतं तु प्रभुचरणैः" इत्यानन्दमयाधिकरणे । तथाहि—चतुर्थाध्यायसमाप्ति श्लोके — "भाष्यपुष्पाञ्जलिः श्रीमदाचार्यचरणाम्बुजे । निवेदितस्तेन तुष्टा भवन्तु मयि ते सदा ।। इत्यत्र भाष्यप्रकाशे श्रीपुरुषोत्तमाः—"गुणोपसंहारपादमारभ्य सार्द्धाध्यायस्य स्वयं करणात्तदा