अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 791, कुल 2600 में से
संदर्भ में पढ़ें६९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ८ सू० २६ धिकारमाह तदुपर्यपि । मनुष्यापेक्षयार्वाक्तनानामधिकारो नास्ति । तत्रापि वैदिकधर्महेतोस्त्रैवर्णिकानां धर्मयुक्तानामागतम् । ततोऽपि ये साध्यादयो धर्म- युक्तास्तेषामप्यधिकारः । तत्र जैमिनिप्रभृतीनां न संमतिरिति स्वनामग्रहणम् । विशिष्टत्रैवर्णिकानारभ्य प्रजापतिपर्यन्तं शतानन्दिनामधिकारं मन्यते बादरा- भाष्यप्रकाशः । तच्छेषभूतौ तौ तदतिरिक्तं विग्रहं न साधयितुं शक्तौ । शरीराभावादेव च नार्थित्वमपीति । तदेतन्निराकर्तुं देवादीनामधिकारमाहेत्यर्थः । नन्वधिकारविचारे सर्वेषामेव विचारणीयः स कुतो न विचार्यत इत्यतः सूत्रं विवृण्वन्ति तदुपरीत्यादि । मनुष्यादर्वाक्तनेषु योग्यताभावादेव नास्ति । मनुष्येष्वपि वैदिकधर्मं प्रति कारणभूतस्योपनयनादेः सकाशात् त्रैवर्णिकानां धर्मयुक्ता- नामेवाधिकार इति जैमिनिसूत्रेष्वेव सिद्धम् । तदुक्तानामप्यविरुद्धानामत्राभ्यासादिषदुपायदेयत्वात् । तत्रात्रापिशब्दोक्तिमहिम्नैवावगतं सूचितमित्यर्थः । शेषं प्रकटार्थम् । संभवं विवृण्वन्ति धर्मे- त्यादि । 'तं विद्याकर्मणी समन्वारभेते' इति श्रुत्या शरीरारम्भं प्रति तयोः कारणत्वात् तयोः रश्मिः । श्वेतमालभेत इति कर्मविधिसत्तच्छेषत्वं वायुर्वै क्षेपिष्ठा देवतेत्यर्थवादो यतः क्षिप्रगामित्वभावतया शीघ्रफलदो वायुरस्य पशोर्देवता ततः प्रशस्तमिमं वायव्यं पशुमालभेतेति वाक्ययोरन्वयः । चतुर्थाधिकरणे तदर्थशास्त्रादित्यस्मिन् मन्त्राणां विधिशेषत्वम् । उरु प्रथस्वेति मन्त्रः कश्चित् । अस्यार्थः भो पुरोडाश उरु विपुलता यथा भवति तथा त्वं प्रथस्व प्रसरेति । दृश्यमानार्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । तात्पर्येति अभिधासत्त्वेपि वक्तुरिच्छाभावाद्द्वितीयो बलीयान् । तच्छेषेति कर्माणि यागादीनि तेषां विधयः । तेषां शेषभूतौ मन्त्रार्थवादौ । योग्यतेति सुतलादिषु बिलेषु सुतले बलिः 'सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः' इति पुरुषोत्तमसहस्रनाम्नः । रसातलं नागलोकः तयोर्बले- र्नागानां च ज्ञानयोग्यता 'आत्मनिवेदने बलिः' इति कस्यचिद्वाक्यात् । 'सर्पाः सत्रमासत' इति श्रुतेः चित्तशुद्धिद्वारा नागानामिति । मैवं । पूर्वस्य पुराणमतत्वात् । श्रुतेस्त्वाधिदैविकनागपरत्वं शब्द इति चेदिति वक्ष्यमाणसूत्रे यागीयपदार्थानामलौकिकत्वस्य वक्ष्यमाणत्वात् । तत्रापीति भाष्यं विवरामासुः मनुष्येष्विति । धर्मयुक्तानामिति त्रैवर्णिकानाम् । चतुर्थस्य धर्माभावान् अनधिकारात् । जैमिनीति सूत्राणि तु षष्ठस्य प्रथमे पादे सूत्राणि चतुर्दश । जैमिनीयन्यायमालायां सप्तमेधिकरणे 'चातुर्वर्ण्यमविशेषात्' । 'निर्देशाद्वा त्रयाणां स्याद् अग्न्यपादये ह्यसंबन्धः क्रतुषु ब्राह्मणश्रुतिरित्यत्रेयः' 'निमित्तार्थेन बादरिः तस्मात्सर्वाधिकारं स्यात्' 'अपि वान्यार्थदर्शनाद्यथाश्रुति प्रतीयेत' 'निर्देशात्पक्षे स्यात्' 'वैगुण्यान्नेति चेत्' 'न काम्यत्वात्' 'संस्कारे च तत्प्रधानत्वात्' 'अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत' 'गुणार्थत्वान्नेति चेत्' 'संस्कारस्य तदर्थत्वाद्विद्यायां पुरुषश्रुतिः' । 'विद्यानिर्देशान्नेति चेत्' 'अवैद्यत्वाद्भावः कर्मणि स्यात्' 'तथा चान्यादर्शनम्' इति सूत्रेषु । बादरायणशब्दोक्त्या जैमिनिमतं कुतोपन्यस्तमत आहुः तदुक्तानामिति । अभ्यासेति आनन्दमयोऽभ्यासादित्यत्राभ्यासः । आदिपदेन श्रुतिलिङ्गादि । उपेति प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारातिदेशद्वयोहाबाधतन्त्रप्रसङ्गानां द्वादशाध्यायार्थानामुपादेयत्वात् । अत्रापीति सूत्रे शब्देति बादरायणशब्दमहिम्ना । सूचितमिति व्यञ्जनयोक्तम् । व्यासशिष्यत्वेन बदरमयनं यस्य जैमिनेरिति योगस्य बादरायणपदस्य जैमिनौ सत्त्वात् । निष्ठा चेति लिङ्गानुशासनसूत्रादधिकारादागतमित्यपि भाष्यार्थः । अधिकारमात्र आग्रहं 698