अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 792, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ६९९ यणः। कुतः । संभवात् । संभवति तेषां ज्ञानाधिकारः । धर्मज्ञानाभ्यां साति- रश्मिः। धिकार आगतमित्यपि प्रयोग उक्तसूत्रात्। भावे या निष्ठा तदन्तं क्लीबं स्यादित्युक्तसूत्रवृत्त्यनादरात् । ततोपि त्रैवर्णिकेभ्यो ये साध्यादय इत्येवं भाष्यं प्रकटार्थमित्याहुः शेषमिति । किं च । भाष्ये । विशिष्टेति धर्मयुक्तेत्यर्थः । मन्यत इति आनन्दमीमांसाया मन्यते । प्रकृते । तयोरिति पूर्वप्रज्ञा चेत्यग्रेतनश्रुत्युक्तप्रज्ञा तु नोक्ता । समन्वारभत इत्यस्य वचनविपरिणामे- नान्वयात् किं तु च इत्यस्य चन्दते आह्लादं करोति इत्यर्थात्तेनान्वयः । अन्येभ्योपीति डः इति व्याख्यासुधायां भानुदीक्षितः । चि चयने स्वादिस्भयपदी अनिद् चक तृप्तिप्रतिघातयोः भ्वादिर आत्मनेपदी सेट् डः यथोपपत्ति सर्वं साधु । पूर्वप्रज्ञा पूरी आप्यायने दिवादिरात्मनेपदी सेट् पूर्यतेः 'सर्वंनिघृष्य' इति सूत्रेण बाहुलकाद्कन् आ-आसा अपि न पियति पि गतौ तुदादिः परस्मैपद्यनिद् अगन्ता आ सततगतिकर्ता अयनं अय गतौ भ्वादिः आत्मनेपदी सेट् भावे ल्युट् प्रा पूरणे प्रज्ञाऽवबोधने क्यादिरुभयपद्यनिद् अव रक्षणार्दौ बुध अवगमने बुध ज्ञाने भ्वादिः दिवादिः परस्मैपदात्मनेपदिनौ सेडनिटौ अव रक्षणार्दौ गम्लृ गतौ अवार्यं अवगमप्रवेशेऽनवस्था अङ्गीकार्या देहानां बहुविधत्वात् तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुतेः । जानातीति ज्ञः 'इगुपधज्ञाप्री- किरः कः' इति कः तथा चाप्ताऽगन्ता सततगतिकर्ताऽयनकर्ता पूरणकर्ता रक्षणादिकर्ता गतिकर्ता देहाह्लादं करोति न चेदं मुक्तस्य संभवति मैवं विशिष्टत्रैवर्णिकानामेवेति भाष्यात् । विच्छिद्य साधनानामङ्गीकार्यत्वात् । जीवन्मुक्तस्य न विच्छेदप्रयोजनम् । साधनानामपि श्रुतिप्रामाण्यात् अवक्रमरणानन्तरमनुवृत्तिः उपास्यधर्मानुवृत्तिश्च देहस्त्वारोपेल्लभ्यः। ताभ्यामिति तादृशेत्यस्य ब्रह्य- विद्योपयोगीत्यर्थः । ननु ताभ्यां विद्याकर्मभ्यां तत्र विद्या विद ज्ञाने अदादिः परस्मैपदी सेट् संज्ञायां समजैति क्यप् टाप् च ज्ञान इत्यत्र ज्ञा अवबोधने मवि ल्युट् । अव रक्षणार्दौ बुध बोधे भ्वादिश- त्मनेपदी सेट् बुध ज्ञान इत्यस्य ग्रहणे आत्माश्रयः । बुध अवगमन इत्यस्य ग्रहणेऽवघटितत्वेन गौरवम्। तथा च विचारक्षणादेर्बोधस्य च कर्त्री कर्म सर्वधातुभ्यो मनिन् करोति क्रियते वा कर्म धातुस्तनादिरुभय- पदी अनिद् तनु विस्तारे डित् अदिप्रत्ययः वि-प्रजननादिकर्ता स्तूञ् आह्वाने स्वादिस्भयपदी अनिद् आ आसा छद ऊर्जने भ्वादिः परस्मैपदी सेट् ऊर्ज बलप्राणनयोः चुरादिः परस्मैपदी सेट् बल प्रापणे चुरादिः परस्मैपदी सेट् प्राणनम् प्र-अन प्राणने चुरादिः परस्मैपदी सेट् इद प्र-पूरणकर्ता अनिति यच्च र्वलार्थ उक्तः प्र-पूरकः पुनः प्रपूरकः अननकर्ता च तं भवाय नाशायेति वाक्याद्दैवं देहं उक्तकर्ता करणार्थः कालश्च समारभेते सम् षम वैक्लव्ये भ्वादिः परस्मैपदी सेट् वि-प्रजनादिकर्ता क्रुङ् शब्दे भ्वादिः क्रवते शब्दकर्ता तं देहं आ आसा तं रमेते रभि शब्दे भ्वादिः आत्मनेपदी सेट् शब्द याविष्कारे आ सततगन्तारं वि-प्रजनादिकर्तारं सुद्धर्यः । आविष्कुरूतः करणे कृतौ काले इति यावत् । टीकायां तु विद्याशब्देनेह प्रमाणाप्रमाणजनितज्ञानमात्रं विहितप्रतिषिद्धादिरूपमात्मज्ञानव्यतिरिक्त- मुच्यते शास्त्रलोकस्वभावोत्पन्नदृष्टादृष्टार्थरूपवाङ्मनःकायसाध्यं सर्वकर्मशब्देनोच्यते तदुत्पन्नफल- भोगजनितः संस्कारो ह्यत्राभितः पूर्वप्रज्ञेत्युच्यते समन्वारभेते अनुगच्छतः पूर्वप्रज्ञा चानु- गच्छति इत्याहुः अपरोक्षज्ञानार्थं पञ्चामिविद्यानिष्ठस्यदेहो वक्ष्यते तृतीयाध्यायेऽत्र तु परोक्षापरोक्ष- 699