अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 793, कुल 2600 में से
संदर्भ में पढ़ें५७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ८ सू० २६ णायाभ्यां हि तादृशजन्मसंभवात् । न हि तेषां पूर्वसंस्कारो लुप्यते । अक्षरपर्यन्तं ज्ञातोत्कर्षश्रवणादुपर्यपेक्षा । भाष्यप्रकाशः । सातिशयत्वे ताभ्यां तादृशदेवादिजन्मसंभवात् । जन्मनि, 'यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात्' इति मन्त्रोक्तलिङ्गेन जन्मत एव प्रजापतेरुपनीतत्वे, 'यो वै वेदांश्च प्रहिणोति तस्मै' इति वेदाध्ययनत आक्षेपादपि च सिद्धेः । ब्रह्मणे ब्राह्मणमालभते, क्षत्राय राजन्यं, मरुद्भ्यो वैश्यमिति श्रुत्या ब्राह्मण्यादीनां देवतात्वात् तासां चोपनयनादिनाऽनुग्रहतपःप्रभृतिभ्योऽपि मातङ्गविश्वामित्रप्रभृतिषु स्मरणादुपिनयनाभावे ब्राह्मण्यादौ सिद्धे, देवादिष्वपि शतानन्दिश्रुतौ, रश्मिः । ज्ञानार्थं विद्याकर्मणोरतिशयविचारार्थमाहुः जन्मनीति । प्रहिणोतीति । प्रा-पूरणे पूरकः सन् हिनोति गच्छति हृदि वर्धयति च वेदान् तस्मै विस्तारकाय । अध्ययनं गुरुमुखादक्षरग्रहणम् । आक्षेपादिति ब्रह्मत्वेनातिशयतर्कात् । सिद्धेः अध्ययनवेदज्ञानमत्त्यादिभिरतिशयसिद्धेः भगवान् ब्रह्म कार्त्स्न्येनेति वाक्यम्, श्रद्धारतिर्भक्तिरित्युक्तमित्यतीति । मुख्यदेवे उपनीतत्वरूपाधिकारेण विद्यावेदा- ध्ययनादिः तदनुकर्म च ते संस्काररूपातिशययुक्ते ताभ्यां तादृशजन्मोक्तम् । अन्येषामप्याहुरतिशयान् । ब्राह्मण इति । तैत्तिरीयक इयम् । अतो योगरूढ्यर्थः । आलभतिर्न हिंसार्थ इति सुबोधिन्याम् । कृत्स्नम् प्राप्ताविद्यालम्भः स्पर्शः । इतीति मरुतो वै देवानां विशः इत्यन्तया श्रुत्या ब्राह्मणं राजन्यं वैश्यमित्यत्र ब्राह्मणत्वादिविशिष्टब्राह्मणादिषु शक्तेर्ब्राह्मणादिपदानांमतो ब्राह्मणादिपदोक्तब्राह्मण्यादीनां देवतात्वमन्यथा लभत इत्युक्तालमनानुपपत्तेः तदुक्तं ब्राह्मणत्वादिदेवतायाः देवा यच्छासनानुसारेण ब्राह्मणत्वादिदेवताः देहे तिष्ठन्ति लोकस्य तं हरिं सर्वदा श्रये इति । स्मरणादिति । 'जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते । वेदाभ्यासोद्भवेद्विप्रो ब्रह्मज्ञो ब्राह्मणः स्मृतः' ॥ इत्युपनयनादिना स्मरणम् । अनुग्रहेण पञ्चमस्कन्धे 'यवीयांस एकाशीतिर्जायन्ते याः पितुरा- देशकरा महाशालीना महाश्रोत्रियाः यज्ञशीलाः कर्मविशुद्धा ब्राह्मणा बभूवु'रिति स्मरणम् । पितुः ऋषभस्यादेशकराः इत्यनुग्रहमाजः । तपसा । 'गाधेरभून्महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम्' ॥ इति विश्वामित्रस्मरणम् 'तपोऽनुग्रहाभ्याम् । महाभारते उपनीतस्य पित्राज्ञया चवनार्थं गर्दभाश्रुमुखेन रथेनहैकायनयार्थं गच्छतो मातङ्गस्य मध्ये देवगर्दभीवचनात् स्वमातरि व्यभिचारिणीत्व- ज्ञाने स्वस्य चण्डालत्वज्ञानं ततो मातापितरौ त्यक्त्वा तपोर्थं गमनं बहुकालं तपःकरणेन प्रसन्नादिन्द्रात् ब्राह्मणत्वं प्राप्तमित्युक्तेः स्मरणम् । प्रभृतिपदेन । 'सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । दृश्यते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः' ॥ इति । भारताजगरे युधिष्ठिरवचनरूपं स्मरणम् । तस्मादित्यर्थः । ब्राह्मव्येति ब्राह्मण्यादिरूपेनेति- रूपे सिद्धे । शतेति शतमानन्दा विचन्ते येषां ते शतानन्दिनो बृहदारण्यके आनन्दमीमांसायामुक्ताः 700