अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 794, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७०१ अतोऽक्षरप्राप्तेः शुद्धब्रह्मविद्याहेतुत्वात्तदुत्तरोत्तरमुपदेष्टॄणां विद्यमानत्वात् भाष्यप्रकाशः । श्रोत्रियस्य चाकामहतस्येति लिङ्गादध्ययने सिद्धे, 'कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता' इति संदर्भेण देवादीनामध्ययने पुराणेऽप्युपबृंहितेऽधिकारयुक्त- जन्मसंभवादित्यर्थः । नच सातिशयत्वेऽपि पूर्वसंस्कारस्य कालेन लोपादसंभव इति शङ्क्यम् । न हि तेषां पूर्वसंस्कारो लुप्यते । यथा नारदस्य । नच मन्त्रार्थवादयोर्देवविग्रहासाधकत्वम् । यज्ञोपवीतमन्त्रस्य क्वापि विधौ शेषभावाभावाद्, यस्यै देवतायै हविर्निरुप्तं स्यात् तां मनसा ध्यायेदिति ध्यानविधेर्देवताविग्रहमन्तरेणानर्थक्यप्रसङ्गादशरीराया देवताया बुद्धावनारोहात् । अत एव, वज्रहस्तः पुरन्दर इत्यादयोऽपि विद्यमानगुणप्रकाशन एव स्मारकत्वं प्राप्नुवन्ति । अर्थवादा अपि स्तावकत्वं तदैव लभन्ते यदि देवताया विग्रहो भवति । स्तुतेरुत्कर्षा- वांबकगुणवर्णनरूपत्वेन गुणाभावे असत्कथनं प्रतारकतां संपादयेदतः स्तावकत्वेऽपि विग्रहसाध- कत्वमक्षुण्णम् । एवं सामर्थ्ये विद्वत्त्वे च सिद्धे शतानन्दश्रुतावक्षरपर्यन्तं शतोत्कर्षभावना- रश्मिः । तेषां श्रुतौ । लिङ्गादिति श्रोत्रियश्छन्दोऽधीते इति काम इच्छा तस्य विनाशेन हतसेति लिङ्गाच्छन्दयोः सामर्थ्यात् । सिद्ध इति । तथा च आगमापगमाभ्यां ब्राह्मण्यादिर्न जातिः किं तु देवतेति भावः । विशेषस्तु ब्राह्मणत्वादिदेवतावादे द्रष्टव्यः । पुराण इति एकादशस्य चतुर्थेऽध्याये । अधिकारेति अतिशयेत्यर्थः । न हि तेषामित्यादिभाष्यमवतारयामासुः न च सातीति । कालेनेति । 'कालेन नष्टा प्रलये वाणी' इति वाक्यात् सृष्टिप्राक्काले अतिशयासंभवः । यथेति प्रथमस्कन्धे स्पष्टः । अक्षरपर्यन्तमिति भाष्यमवतारयांबभूवुः न चेति । विधिशेषत्वे तस्यार्थेषु तात्पर्याभावात् । अभ्युपगम्य विध्यशेषं वाक्यमाहुः यज्ञोपेति । शेषेति तथा च यदि क्वचिदयं मन्त्रः शेषभावं प्राप्तः स्यात्तदा स्वप्रकाशितफलोद्देवतः क्रतुः स्वापूर्व साधयतीति सिद्धान्तः सर्वोदतो भवेन्न त्वेवमतोयं देवविग्रहसाधक एव सहजमिति भावः यदपि शब्दमात्र देवता अर्थस्तु प्रातिपदिकानुरोधात् चेतनो वा कश्चित स्वीक्रियते न तु विग्रहादिमान् । उपासनादौ परध्यानमात्रमाहार्यं तसेति वदन्ति माध्वाः तत्राहूः यस्यै देवताया इति हविषो निर्वापः कृतः स्यात् । बुद्धाविति 'बुद्धिर्विज्ञानरूपिणी' इति वाक्यात् विशिष्ठं ज्ञायते येन तद्विज्ञानं तद्रूपमस्यास्तीति विज्ञानरूपिणी तस्याम् । न च चेतनत्ववैशिष्ट्येन बुद्ध्यारोहोस्तीति वाच्यम् । अणुत्वेन बुद्धावनारोहात् । यथोक्तं सनादावित्यादि तत्राप्युच्यते आहार्यं बाधकालीनमिच्छाजन्यं ध्यानं चिन्तनम् । बाधो विग्रहाभावप्रयुक्तविषयाभावजन्य इति । अविद्यमानशरीरारोपेणापि शरीरमात्रस्य ध्यानकर्मत्वं न देवतायां देवतात्वेन तस्या अविषयत्वात् । शुक्ताविदं रजतमित्यत्र शुक्तौ रजतत्वेन इव । ततश्च ध्यानविषयस्य देवतात्वप्रकाराभावेन देवतात्व- विशिष्टदेवतायाः ध्यानविषयत्वबोधकश्रुतिविरोधः एतदेवाहूः अत एवेति पदेन । इत्यादय इति आदिपदेन सहस्राक्षो गोत्रभिद् वज्रबाहुरिति इन्द्रो वृत्राय वज्रमुदयच्छदिति । मन्त्रा इति विशेष्यम् । वेदो ह्यक्षरमात्रमपि नान्यथा वदतीति भाष्यादाहुः एवेति । उत्कर्षेति उत्कर्षाणामावा- पका ये गुणाः तेषां वर्णनम् । अक्षुण्णमिति । ननु देवताया विग्रहे सति वेदानित्यत्वप्रसङ्ग इति चेन्न वैदिकशब्दानां विग्रहसंज्ञान सूत्रे वक्ष्यमाणत्वात् । यदपि नवमस्य चतुर्थाधिकरणे विग्रहादि- 701