अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 81, कुल 2600 में से
संदर्भ में पढ़ेंतृतीयाध्यायस्य तृतीयपादे चतुर्विंशतिसंख्यात्मकान्यधिकरणानि । तृतीयाध्यायस्य चतुर्थपादे नवसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य प्रथमपादे सप्तसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य द्वितीयपादे षष्ठसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य तृतीयपादे पञ्चसंख्यात्मकान्यधिकरणानि । चतुर्थाध्यायस्य चतुर्थपादे पञ्चसंख्यात्मकान्यधिकरणानि । इत्येवमतिसंक्षेपेण भाष्यपदार्थसंग्रहः प्रतिपादमधिकरणानि च वर्णितानि । ।। श्रीमद्वल्लभाचार्याणां संक्षिप्तचरितम् ।। दक्षिणप्रदेशे तैलङ्गदेशे 'कांकरवाड' नाम्निग्रामे दीक्षितसंज्ञासंज्ञितकृष्णयजुर्वेदीय- तैत्तिरीयशाखिनां प्रथितं कुलमासीत् । तस्मिन्कुले सर्वे कुलपुरुषाः सोमयाजिनः बभूवुः। अस्य कुलस्य मूलपुरुषाः श्रीनारायणयज्ञाः। अस्मिन्नेव कुले श्रीलक्ष्मणभट्टाः प्रादुर्बभूवुः। ते स्वपत्न्या सह एकवारं काशीयात्रार्थमगच्छन् । तदैव मार्गमध्ये मध्यप्रदेशे चम्पारण्यस्थले तत्पत्न्याः इल्लमगारोः कुक्षौ । (वि.सं. १५३५) वैशाखकृष्णैकादश्यां श्रीवल्लभाचार्याणां प्राकट्यमभवत् । तदा भवतां पितृचरणाः श्रीलक्ष्मणभट्टाः भार्यापुत्राभ्यां सह द्वादशवर्षाणि यावत् काश्यामवसन् । तदा काश्यामेव श्रीवल्लभाचार्याणां यज्ञोपवीतादयः संस्काराः अभवन् । श्रीवल्लभः निखिलान् वेदान् सर्वशास्त्राणि च झटिति अधीतवान् । ततः स्वदेशमागतास्ते त्रयः। ततः श्रीलक्ष्मणभट्टाः दिवं याताः। ततः पुनः श्रीवल्लभाचार्याः तीर्थयात्रार्थं प्रस्थिताः। तदा तीर्थयात्रायां श्रीवल्लभाचार्याणां बहुभिर्विद्वद्भिः सह शास्त्रचर्चा जाता यत्र विद्वांसः पराजिताः । आचार्याः त्रिवारं पृथ्वीपरिक्रमां विधाय स्वसिद्धान्तप्रचारं कृतवन्तः तत्रैव विजयनगरे श्रीकृष्णदेवरायनृपतेः राजसभायां सर्वान् वादीन् पराजित्य विधिवत् 'शुद्धाद्वैतब्रह्मवादनिर्गुणपुष्टिमार्गाभिधं स्वसिद्धान्तं संस्थापितवन्तः । तत्र यात्रा मध्य एव श्रीगोवर्धनपर्वते श्रीनाथजीत्यपरपर्यायः परब्रह्म भगवान् श्रीकृष्णः श्रीवल्लभाचार्यसन्निधौ स्वेच्छया स्वयं प्रादुर्भूयात्मानं दर्शयामास । स्वसेवाकरणार्थमाज्ञाप- यच्च । स एव पुष्टिमार्गः श्रीवल्लभाचार्यैः प्रवर्तितः। तत्रैव तीर्थयात्राप्रसङ्गे श्रीवल्लभाचार्यचरणाः भगवतः पाण्डुरंगविठ्ठलनाथस्याज्ञया काश्यां च स्वमातुरनुमत्या च स्वजातीय मधुमंगलनामक- तैलङ्गविद्वान्ब्राह्मणस्य सुयोग्यकन्यया सह विधिपूर्वकं विवाहं चक्रुः । तत्र श्रीगोपीनाथ- विठ्ठलनाथाख्यौ द्वौ सुतौ यथाक्रमं (वि.सं. १५६८ आश्वि. कृ. १२ तथा वि.सं. १५७२ मि.पौ.कृ. ९) जन्म लेभाते । एवमाश्रमत्रयं प्रोत्तीर्य सर्वशास्त्रसम्मतं त्रिदण्डसंन्यासं परिगृह्य काश्यां हनुमानघाटेति प्रसिद्धस्थले वि.सं. १५८७ मि. आषा.शु. २ रविवासरे मध्यान्ह काले सुरसरित्प्रवाहे आत्मानं प्रवेशयामासुः। एवमासुराणां व्यामोहनार्थं स्वशरीरत्यागं कृतवन्तः। वस्तुतस्तु ते साक्षाद्भगवद्धाम प्रापुः । जगद्गुरुश्रीवल्लभाचार्यविरचिताः अनेके ग्रन्थाः सन्ति । ते च बृहद्ग्रन्थलघुग्रन्थभेदेन द्विविधाः। तत्र बृहद् ग्रन्थाः - (१) ब्रह्मसूत्राणुभाष्यम् । (२) तत्त्वदीपनिबन्धः। (३)