अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 82, कुल 2600 में से
संदर्भ में पढ़ेंनिबन्धप्रकाशः। (४) श्रीमद्भागवतसुबोधिनी। (५) पूर्वमीमांसाभाष्यम्। (६) गायत्रीभाष्यम् इत्यादयः । लघु ग्रन्थाः - (१) श्रीयमुनाष्टकम्। (२) बालबोधः। (३) सिद्धान्तमुक्तावली। (४) पुष्टिप्रवाहमर्यादाभेदः। (५) सिद्धान्तरहस्यम्। (६) नवरत्नम्। (७) अन्तःकरणप्रबोधः। (८) विवेकधैर्याश्रयः। (९) कृष्णाश्रयः। (१०) चतुःश्लोकी। (११) भक्तिवर्द्धिनी। (१२) जलभेदः। (१३) पञ्चपद्यानि। (१४) संन्यासनिर्णयः। (१५) निरोधलक्षणम्। (१६) सेवाफलम्। तथा च = पुरुषोत्तमसहस्रनाम। परिवृढाष्टकम्। पत्रावलम्बनम्। त्रिविधनामावली। शिक्षाश्लोका इत्यादयः । श्रीमद्वल्लभाचार्यविरचितं श्रीमद्भगवद्गीताभाष्यमनुपलब्धम्। कालवशाद्वा कस्माच्चि- त्कारणल्लुप्तमिति मन्यन्ते ऐतिहासज्ञाः । श्रीमद्वल्लभाचार्याणां प्रथमपुत्राः श्रीगोपीनाथाः। तेषामेक एव सुतः श्रीपुरुषोत्तमाः। तदग्रे वंशविस्तारो नास्ति। आचार्याणां द्वितीयसुताः श्रीविठ्ठलेशाः। एतेषां ग्रन्था :- अणुभाष्योत्तरार्धः। विद्वन्म- ण्डनम्। शृङ्गाररसमण्डनम्। सुबोधिनी टिप्पणी। भक्तिहंसः। भक्तिहेतुनिर्णयः। इत्यादयः। एतेषां सप्तसुताः। ते च क्रमशः श्रीगिरिधराः, श्रीगोविन्दरायाः, श्रीबालकृष्णाः, श्रीगोकुलनाथाः, श्रीरघुनाथाः, श्रीयदुनाथाः श्रीघनश्यामाश्च। श्रीमद्विट्ठलेश्वर तृतीय सूनु श्रीबालकृष्णातः पुरुषगणनया चतुर्थवंशयश्रीपीताम्बर- गोस्वामिनामात्मजाः श्रीपुरुषोत्तमचरणाः दशदिगन्तविजयिनः स्वपितृव्याणां श्रीश्यामसुत- व्रजरायजीमहाराजानामुत्सङ्गे गताः। एतेषां श्रीपुरुषोत्तमचरणानां जन्म वि.सं. १७२४ मि.भा.शु. ११ अभूत्। एषां टीकाग्रन्थेषु सर्वश्रेष्ठः अणुभाष्यप्रकाशाभिधनिबन्धः। एषः निबन्धः अद्वितीयः । श्रीपुरुषोत्तमचरणसदृशाः विद्वांसः सुदुर्लभाः। एतद्विरचिताः ग्रन्थाः। नवलक्षश्लोकपरिमिताः सन्ति। तत्र केचित्कथयन्ति यन्नवलक्षसंख्यकाः ग्रन्थाः सन्ति। किन्त्वधुना तेषु अधिकग्रन्थाः लुप्ताः । श्रीपुरुषोत्तमचरणरचितेषु ग्रन्थेषुसुबोधिनीप्रकाशः, उपनिषद्दीपिका, आवरणभङ्गः, प्रस्थानरत्नाकरः, सुवर्णसूत्रम्, षोडशग्रन्थविवृतिः, वादावलिः इत्यादयः बहवो ग्रन्थाः पाण्डित्यपूर्णतया निबद्धाः एतेषां विषये साम्प्रदायिकौ श्लोकौ प्रसिद्धौ - श्रीमद्वल्लभदीक्षिताह्वयहरेर्वन्द्यान्वयेसप्तम- स्तत्कारुण्यसुधाभिषेकविकसत्सौभाग्यभूमोदयः । दृप्यद्दुर्मदवादिविद्विभदुकूटोक्तिकुम्भस्थली- सद्योभञ्जनकेलिकेसरपतिः पीताम्बरस्यात्मजः ॥१॥ नासीद्येन समः समस्तनिगमस्मृत्यादि तत्त्वार्थविद् वक्ता चाप्रतिमः सदःसु विदुषामद्यापि भूमौ बुधः ।