भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 83, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 83

यः सर्वं नवलक्षपद्यकमितप्रौढप्रबन्धं व्यधात् स श्रीमान् पुरुषोत्तमो विजयतामाचार्यचूडामणिः ॥२॥ एवमेतेषां विस्तृतं चरित्रं 'पुरुषोत्तमदिग्विजय' द्रष्टव्यं विशेषजिज्ञासायाम् । एतादृशाः, उत्कृष्टविद्वांसः सम्प्रदायान्तरे भूतलेऽपि च विरला एवेति । अणुभाष्यप्रकाशोपरि 'रश्मि' विवृति लेखकाः श्रीयोगिगोपेश्वराः श्रीविठ्ठलेशतृतीय- सूनुवंशोद्भवाः परन्तु श्रीविठ्ठलेशद्वितीयसूनुश्रीगोविन्दरायवंशे दत्तकत्वेन समागताः विद्वद्वरेण्याः। एते प्रसिद्धा पण्डिताः। एभिः भाष्यप्रकाशोपरि रश्मिनामिका भाष्यात्मिका ग्रन्थाकारा वा टीका निरमायि, सा विद्वन्मान्या । श्रीगोपेश्वरचरणानां स्ववंशपरम्परा दत्तकवंशपरम्परा च संक्षेपेणात्र प्रदर्श्यते—श्रीमद्विठ्ठलेश्वरतृतीयसूनु श्रीबालकृष्णानां चतुर्थपुत्राः श्रीपीताम्बराः तस्यान्वये क्रमेण श्रीश्यामलजितः, तत्पुत्राः श्रीव्रजरायजितः तद्दत्तकपुत्राः श्रीपुरुषोत्तमचरणाः दशदिगन्तविजयिनः तद्दत्तकपुत्राः श्रीपुरुषोत्तमाः (गो.आ.तृ.गृ.१ से) तत्पुत्राः श्रीगोवर्धनशजितः (द्वि०) तद्दत्तकपुत्राः श्रीगोकुलोत्सवजितः (गो. आये द्वि.गृ.१.से) तत्पुत्राः श्रीयोगिगोपेश्वराः पण्डितप्रवराः रश्मिकाराः (गो.गये.द्वि.गृ.१. में विठ्ठलेशरायजी के) तत्पुत्राः श्रीकृष्णरायमहाभागाः। इति योगिगोपेश्वराणां स्ववंशावलिः। अतः परं तेषां दत्तकवंशपरम्परा—श्रीमद्विठ्ठलेश्वर द्वितीयसूनुश्रीगोविन्दरायाः तत्पुत्राः श्रीकल्याणरायाः तत्पुत्राः श्रीहरिरायाः शिक्षापत्ररचयितारः तद्दत्तकपुत्राः श्रीगिरिधरजीमहोदयाः (गो.आये.प्र.गृ.१. से.) तत्पुत्राः श्रीरघुनाथजितः तत्पुत्राः श्रीगोविन्दरायजितः (द्वि.) तत्पुत्राः श्रीविठ्ठलेशरायजितः तद्दत्तकपुत्राः श्रीयोगिगोपेश्वर महाभागाः विद्वत्प्रवराः (गो. आये. तृ.गृ.२.से. प्रा.वि.सं. १८४५ मि.ज्ये.शु. ८) इति श्रीयोगिगोपेश्वराणां दत्तकवंशपरम्परा । किं चैभिः' भक्तिमार्त्तण्डादयः अन्येऽपि ग्रन्थाः सारगर्भिताः लिखिताः। ब्रह्मसूत्रमिदं समग्रवेदान्तानां आकरग्रन्थः। ब्रह्मसूत्रेद्रं कदा निर्मितमित्यतिचिरन्तनवृत्त- त्वाद्यद्यपि निश्चयेन वक्तुं न शक्यते तथापि महर्षिबादरायणव्यासरचितत्वादस्य रचनाकालः द्वापरयुगस्यान्तिमो भागः कलिकालस्य च प्रारम्भः अतः सम्भवतः पञ्चसहस्रवर्षाणि यावत् पूर्वमस्य कालः निश्चेतुं शक्यते । ब्रह्मसूत्ररचनाकालः अतिप्राचीनः इति प्राज्ञां मतम् । आधुनिकपाश्चात्यानामतानुसारेणास्य रचनाकालः चतुः शती ई०पू० वर्तते । अस्माकमैतिह्यानुसारेण श्रीमद्भागवतप्रथमस्कन्धोपारख्यानेन ज्ञायते यच्छ्रीमद्भागवतनिर्माणतः पूर्वमेव रचितमिति । श्रीमद्भागवते भगवतः श्रीकृष्णस्य लीलावर्णनमस्ति भगवान् श्रीकृष्णस्योद्भवः किञ्चिदधिक पञ्चसहस्राब्देभ्यः पूर्वतने काले आसीदिति । अतः श्रीवेदव्यासरचित- ब्रह्मसूत्रस्यापि कालः स एवेति निश्चीयते । एवमेव श्रीमद्भगवद्गीतायामपि "ब्रह्मसूत्रपदैश्चैव" इत्यादि श्लोके ब्रह्मसूत्रस्य नामोल्लेखात्स्पष्टं निश्चीयते यत्तत्सूत्रस्य रचनाकालः श्रीभगवद्गीतातः अपि पूर्वमस्तीति । ब्रह्मसूत्रेऽस्मिन् सूत्रसंख्याऽपि विविधा तत्तद्भाष्यकारैर्निर्णिक्ता । तत्र प्रमुखमतानि — सू.सं. अधि.सं. (१) भाष्यकाराः आचार्यशङ्कराः ५५५ १९९ lxx

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 83, कुल 2600 में से · BharatKosha