अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 84, कुल 2600 में से
संदर्भ में पढ़ें(२) भाष्यकाराः आचार्यरामानुजाः ५४५ १६० (३) भाष्यकाराः आचार्यमाध्वाः ३६४ २२३ (४) भाष्यकाराः आचार्यनिम्बार्काः ५४९ १६१ (५) भाष्यकाराः आचार्यवल्लभाः ५५४ १७१ एवं जगद्गुरुश्रीमदाचार्यचरणैकदर्शितः साकारब्रह्मवादापरपर्यायः “शुद्धाद्वैतब्रह्म- वादनिर्गुणपुष्टिमार्गो” नाम सन्मार्ग इत्यविचिकित्सितम् । श्रीमदाचार्यचरणैः श्रीमत्प्रभुचरणैश्च प्रदर्शितरीत्या तत्कृपयैव तत्सिद्धान्तसरणिमनुसृत्य श्रीमद्ब्रह्मसूत्राणुभाष्यस्य प्रकाशरश्मि- सहितस्योपोद्घातोऽयं मया विलिखितः । अत्र निर्मत्सराः विद्वांसः गच्छतः स्खलनन्यायेन प्राप्तामशुद्धिं संशोध्य पठन्तु, मयि चोपकुर्वन्विति । ।। धन्यवाद ज्ञापनम् ।। भगवतः श्रीयशोदोत्संगलालितस्य श्रीगोपीजनवल्लभस्य श्रीमुकुन्दप्रभोः श्रीगोपालप्रभोश्च परमानुग्रहेण परमगहनस्यास्य तत्त्वसूत्रस्याणुभाष्यप्रकाशरश्मिरूपत्रिवेणीसङ्गमस्वरूपबृहद्ग्रन्थस्य पुनः प्रकाशने प्रयतमानाः सतनूवित्तदत्तचित्ताः श्रीहरिश्चन्द्रमहोदयः, श्रीसरोजकुमारगोयलः (एतौ दिल्लीवास्तव्यौ) श्रीदेवकुमार अग्रवालमहोदयः, श्रीघनश्यामजीशाहमहोदयः (एतौ काशीवास्तव्यौ) एते सर्वे शतशः धन्यवादर्हाः। इत्यलं विस्तरेणेति ॥ lxxi