अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 813, कुल 2600 में से
संदर्भ में पढ़ेंकाऽन्यविन्दैहस्थ्यवन्तः । तथा च पूर्वस्थितामेव वाचं सर्वे ज्ञातवन्त इति तात्पर्यार्थः । निःश्वसितेत्यादीति तथा चेश्वरात्मकत्वरूपं नित्यत्वं वेदस्य न तु तदुक्तमिति भावः । नन्व- स्त्वीश्वरस्य नित्यता कथं तादृशी तन्निःश्वासस्येत्यत आहुः तस्यापीति । तस्येति ईश्वरस्य । तथा च सिद्धान्ते साकारत्वात् तादृशी नित्यता सूपपद्येति भावः । लोकवेदेति पूर्वतन्त्रे प्रथमस्य तृती- यपादेऽस्ति । जैमिनिनेति । 'प्रयोगचोदनाभावादर्थैकत्वमविभागात्स्यात्' इत्यादिषु सूत्रेषु शब्दैक्यस्या- नुक्तत्वादित्यर्थः । तथाहि यन्माधवीयजैमिनिन्यायमालाविस्तरे अर्थैकत्वं पदैक्यमन्तरा न संभ- वतीति पदैक्यं तर्कयित्वा अर्थैकत्वं महता संरम्भेण साधितम् । तत्र पदैक्यमन्तराप्यर्थैकत्वं पर्या- येषु दृष्टमिति तन्मन्दमिति अतो लोकवेदाधिकरणस्य कल्पितत्वेनाप्रामाणिकत्वम् । किंचाकृत्य-