भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 815, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 815

दार्थार्थम् । नन्वस्य प्रपञ्चस्यानुकारित्वेन वाच्यत्वेन वा लौकिक्यमानत्वे सृष्टि- प्रलययोर्विद्यमानत्वादनित्यसंयोगः प्राप्नोति तत्राह समाननामरूपत्वादावृत्ता- वप्यविरोधः । वस्तुतस्तु भगवद्रूपत्वादाविर्भावतिरोभावेच्छयैव तथात्वात्- इतिशङ्कापि । तथापि लोकबुद्ध्यनुसारेणावृत्तावपि समाननामरूपत्वात् । भाष्यप्रकाशः । अनुक्तेत्वादेः सूक्तनित्यताबोधकत्वाद्वागर्थबलविचारेण । एतद्विचारेणाशङ्कायाहुः नन्वि- त्यादि । समाधिं व्याकुर्वन्ति वस्तुत इत्यादि । तथात्वादिति अनित्यत्वेन प्रतीयमानत्वात् । तथोक्तं विष्णुपुराणे प्रथमेंऽशे— 'तदेतदक्षयं नित्यं जगन्मुनिवराऽखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्' ॥ इति । रश्मिः । 'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः ।

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 815, कुल 2600 में से · BharatKosha