अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 819, कुल 2600 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ पर दिए गए संस्कृत पाठ का देवनागरी में पंक्ति-वार लिप्यन्तरण प्रस्तुत है:
७२६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ८ सू० ३१ भाष्यप्रकाशः। त्वाविशेषान्मनुविद्यायामपि देवानाधिकारो वक्तव्यः । तत्रासौ वा आदित्यो देवमध्विति मधूत्वेनोपवर्ण्यमानस्यादित्यस्य विद्याविषयत्वादादित्यः कमन्यमादित्यमुपासीत । किंवात्रे आदि- त्याश्रितानि पञ्च रोहितादीन्यमृतान्यनुक्रम्य वसुरुद्रादित्यमरुत्साध्याख्यान् पञ्च देवगणांस्त- दुपजीवकानुक्त्या, स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनेव मुखेने तदेवामृतं दृष्ट्वा तृप्यतीत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतो वस्त्रादिरूपत्वप्राप्त्या स्वगणमुख्यामुखेन तृप्तिरुच्यते । सा चोपासनात् प्रागेव वस्त्रादिरूपेण वर्तमानानां पुनस्तत्प्राप्तिकथनात् प्राप्य- प्राप्योर्बेध वेतोरैक्यापस्याऽनुपपन्ना भवति । न च वस्त्रादिप्राप्या वेदांशान्ये कल्पयितुं शक्यन्ते। प्रमाणाभावात् । अधिकारानङ्गीकारे तु तेषामनुपासकत्वात् कृतार्थत्वाच्च न देवान्तरकल्पना । न च मास्तु मधुविद्याधिकारः । तावता ब्रह्मविद्याधिकारो न वारयितुं शक्यः । तेषां मोक्षा- र्थित्वात् तत्र बाधकाभावाच्चेति वाच्यम् । यतो ब्रह्मणोऽपि देवत्वम्, देवत्वेन च तस्याप्यु- पासकप्रमाणे प्रवेशेनोपासत्वप्राप्यत्वयोर्विघटनादिति । अत्र च मध्वादीत्यादिपदेन, अग्निः पादो रश्मिः। तेजस्त्वात्' इति सूत्रविषयत्वेन रश्म्यभेदात् स्वतः सिद्धम् । प्रकृते । अत्र इति असौ वा आदित्यो देवमधु तस्य चौरैवेतिस्राग्रे । तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाज्यः ऋच एव मधुकृत ऋग्वेद एव पुष्पम् ता अमृता आपस्ता वा एता ऋच एतमृग्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत तद्वयक्षरत्तदादित्यमभि- तोऽश्रयत्तद्वा एतदादित्यस्य रोहित रूपमिति । तस्य देवतिर्यग्गतवतः मधुनः चौरैव तिरश्चीनवंशः तत्प्रसिद्धमधुन् इव चिन्तयेत् । अन्तरिक्षमपूपः । सवितृमध्वाश्रयत्वात् मरीचयः लक्षणया रश्मिसङ्घाः सविन्नाकृष्टाः भौमा आपः । पुत्रा इव मध्वपूपच्छिद्रभ्रमरबीजस्थानीयाः तस्य रसमध्वाश्रयस्य सवितुर्ये प्राचः पूर्वदिग्गता रश्मयः ता एवास्य मधुनायः प्रसिद्धमधुन इव मध्वाधारच्छिद्राणि तत्र ऋच एव ऋचचाः एव मधुकृतो भ्रमराः कुतः ऋचाचा हि सोमाहृत्यपोऽपूर्वरूपा आदाय लोहितं रूपं सवि- त्राश्रयं मधु कुर्वन्तीति मधुकृतः । ऋग्वेदः ऋग्ब्राह्मणभागः । तद्विहितं कर्म एव पुष्पं पुष्पस्थानीयं ताः प्रसिद्धाः कर्मणि प्रयुक्ताः अमृता आपः सोमाज्यपयोरूपाहुतयः अपूर्वीभूताः अत्र पुष्पाश्रयापस्था- नीया इत्यर्थः । ता वा एता भ्रमरस्थानीया ऋचः कर्मपुष्पेभ्यः आहुत्यपूर्वरूपरसमादातुकामाः ऋग्वेदं तद्विहितकर्मपुष्परूपमभ्यतपन् रसनिःस्रवार्थ व्यापारमकुर्वन् यथावत् कर्म निरवर्तयन्नित्यर्थः। ऋग्भिर्मत्रैः शस्त्राशस्त्रभावमुपगतैः क्रियमाणं कर्म रसनिवर्तकं भवति । पुष्पाणीव भ्रमरैराकृष्यमाणानि । रसान्मधुनिष्पत्तिमाह तस्याभितप्तस्येति । तस्य ऋग्वेदविहितकर्मपुष्पस्याभितप्तस्य ऋग्भ्रमरैर्निर्वर्ति- तस्य यशस्तेज आदि रसोऽजायत । यशो विश्रुतम् । तेजस्स्वगतं दीप्तिः । इन्द्रियं प्रसिद्धं वीर्यं सामर्थ्यम् । बलमन्नाद्यं अन्नं च तदन्नं च । रसो मध्वाख्योऽजायत उत्पन्नः । तद्वयक्षरदिति तच्चापि ब्रह्मास्तं मधु व्यक्षरत् विशेषेणोर्ध्वमक्षरत् अगमत् । तदादित्यमिति गत्वा च तन्मधु आदित्यमभितः पार्श्वतः आदित्यस्य पूर्वभागमश्रयत् । तद्वा एतदिति तद्वै तदेव पूर्वोक्तमेवैतत्प्रत्यक्षं मधु किं तत् यदेतद् उद्यत आदित्यस्य रोहितं रक्तरूपं दृश्यत इत्यर्थः । एवं अथ येऽस्य दक्षिणा रश्मयः ता एवास्य दक्षिणा मधुनाच्यः यजूंष्येवेत्यादिः आदित्यस्य शुक्लं रूपमिलन्ता श्रुतिः । एतामय येऽस्य प्रत्यचो रश्मयः ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येवेत्यादिः आदित्यस्य कृष्णं 726