अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 822, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७२९ स एतमग्निहोत्रं मिथुनमपश्यत् । तद्युदिते सूर्येऽजुहोदिति' । देवा वै सत्रमा- सतेत्यादिभिः कर्माधिकारो निश्चितः । तद् यो यो देवानां प्रत्यबुध्यत स एव तदभवदित्यादि । तथेन्द्रप्रजापतिसंवादे, ब्रह्मा देवानामिति च । एवमेवंविधै- र्वाक्यैर्देवानामध्यधिकारोऽस्ति । यच्च च पुनर्दैवानां फलभोग एव प्रतीयते, न भाष्यप्रकाशः । प्रमाणं न स्यात्, तदा तादृशज्ञानेनान्यसाध्यमग्निहोत्रिणः प्रजारूपं फलमपि न स्यात् । अतोऽ- ग्निहोत्रद्रष्टृत्वं तद्धोतृत्वं चावश्यमभ्युपेयम् । न चात्र प्रजापतिरिति भाविनी संज्ञा वक्तुं शक्या । स्वतः पूर्वमन्यस्याभावात् । 'यो ब्रह्माणं विदधाति पूर्वम्' इति श्रुतेः । एवं सिद्ध एकत्राधिकारे, देवा इत्यादिभिः कर्मणि, यो य इत्यादिभिर्ज्ञाने च देवानामतिलारो निश्चितः । एवमित्यादिकं रश्मिः । वज्रायमादित्यो ब्रह्मेत्यादेश इतिवद् विरुध्यति नाप्यनुवदते वायुर्वा व संवर्ग इतिवत् । किं तु पूर्वं जातमर्थं प्रकाशयति भूतार्थवादः । तथा च वार्तिकम्— 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः' ॥ इति । अत्र भाष्य आदिपदेन 'साध्या वा देवाः स्वर्गकामाः एतं षड्रात्रमपश्यन् तमाहरन् तेनायजन्त' इति संगृहीतव्या । अयमितिपदेन लङन्तपदघटितश्रुतितुष्टयपरामर्शात् द्वितीयायां विशेषमाहुः यस्यैवमिति द्वितीयस्य चतुर्थपादेस्ति । अग्निहोत्रविषये बह्वृचब्राह्मणं यावज्जीवमग्निहोत्रं जुहोतीत्यत्र यावज्जीवशब्दः कृत्स्नजीव[न]वाचकस्ततश्च तत्पुरुषधर्मं निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते इति विद्वदविद्वत्साधारणोऽग्निहोत्रप्रयोगः । अत्र चाग्निहोत्रमिथुनमपश्यदिति भूतार्थवाद- स्तेनासद्रीयाः एवं विदुषो यावज्जीवमग्निहोत्रं प्रतीयन्त्यत्रेति विद्वदग्निहोत्रप्रयोगः तत्र विद्वद्वाक्यशेषा- पेक्षास्ति । ननु विद्वदविद्वत्साधारणप्रयोगो वैधः 'विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत्' इति वाक्यसिद्धश्वेति भूतार्थवादेन कथं विकल्प्यते इति चेत्तत्राहुः स यदीति स भूतार्थवादः । न स्यादिति । न च काकतालीयन्यायेन फलमस्तु इति वाच्यम् । निर्बन्धोनामप्रवृत्त्यापत्तेः । विदुष इति वाक्यं तु विदुषः सकलकर्मसिद्धिमाह न तु विद्वदविद्वत्साधारणप्रयोगम् । अन्यस्येति मनुष्यत्ववत्संज्ञाकारणस्य वसुनिक्षेपेव प्रजापतित्वान्यस्य । एवमिति एवं पूर्वोक्तप्रकारोणासौ वा 'आदित्यो देवमधु' इत्यादीति न्यायादिलन्तभाष्योक्तवृत्तान्त एकत्र देवा इत्यादिभिः कर्माधिकारे सिद्धे । बोध्यवं । एवं पूर्वपक्षे पूर्वसूत्रोक्तदोषद्वयं ज्ञानकर्माधिकाराभावरूपमुद्भूतम् । द्वितीयसूत्रोक्तं दोषमुद्धर्तुमाहुः एवमितीति । एवं प्रकारो यत्र एवमेवंविधैर्वाक्यैर्देवानामध्यधिकारोऽस्तीति भाष्ये तत्रापि यस्य यत्र चेति भाष्यस्य तद्भाष्यं स्फुटार्थम् । करणं भाष्ये कृतिः । अधीति असौ वा आदित्त इत्यस्यार्थं उक्तो भगवदिच्छ्या ये लौकिकाः शब्दास्त एव वैदिका इति 'ये धातुशब्दाः' इति पन्नापठम्मनात्सर्वेन्तरमुच्यते सिद्धान्ते परं तु भगवदिच्छयैव सिद्धान्ते, अन्यार्थे इच्छाभावात् । ननु पत्रावलम्बने कर्मकाण्डश्रुत्युल्लेखात् कर्मकाण्डविषयेऽस्तु न तु ज्ञानकाण्डेपीति चेन्न तत्र 'विचारो मोगरूढितः' इति पूर्वमीमांसाकारिकाया योगरूढेः 'तत्रैवाशौ वेदराशेः' इत्यत्रैवकारेण रूढेर्व्यवच्छेदात् । वेदान्तानामपि वेदत्वमतो योगमात्रं वेदान्त इत्येवकारपर्यालोचनलब्धम् । अतोऽस्यां कुत्राधिकारः सर्ववत्तच्च इलग्नां उच्चन्ते । असाविति यद् यज्ञाने असुन् वप्ता । वै भातीति । या भवि-