भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 842, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 842

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७४९ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८ ॥ दूरेऽधिकारचिन्ता । वेदस्य श्रवणमध्ययनमर्थज्ञानं त्रयमपि तस्य प्रतिषिद्धम् । तत्सन्निधावन्यस्य च । अथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्र- प्रतिपूरणमिति । यद्यु ह वा एतच्छ्मशानं यच्छूद्रः । तस्माच्छूद्रसामीप्ये नाध्येतव्य- मिति । उदाहरणे जिह्वाच्छेदो, धारणे शरीरभेद इति । दोहादौ शूद्रसंबन्धे मन्त्राणामभाव एव । स्मृतिप्रयुक्तापि वेदार्थे न शूद्राधिकार इत्याह स्मृतेश्च ॥ 'वेदाक्षरवि- चारेण शूद्रः पतति तत्क्षणादिति । चकारस्त्वधिकरणसंपूर्णत्वद्योतकः । स्मार्त्त- पौराणिकज्ञानादौ तु कारणविशेषेण शूद्रयोनिगतानां महतामधिकारः । तत्रापि न कर्मजातिशूद्राणाम् । तस्मान्नास्ति वैदिके कश्चिद

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 842, कुल 2600 में से · BharatKosha