भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 843, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 843

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

७५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ९ सू० ३८ भाष्यप्रकाशः। 'आसक्तौ भगवान्नैव शापं दापयति क्वचित् । अहंकारेऽथवा लोके तन्मार्गस्थापनाय हि' ॥ इत्युक्तरीतिकेन शापादिना कारणविशेषेण शूद्रयोनिगतानां महतां विदुरवेदवादोदासी- सुतसदृशां फलमुखोऽधिकारः। तादृशामेव तत्र कृतार्थत्वस्मरणात् । तत्र शूद्रयोनिगतत्वेऽपि न कर्मजातिशूद्राणाम् । 'अत्रापि वेदनिन्दायामधर्मकरणात् तथा । नरके न भवेत् पातः किंतु हीनेषु जायते' ॥ इत्युक्तरीतिकेन कर्मणा जातिशूद्राणां न फलमुखोऽधिकार इति । ज्ञानादावित्यादिपदेन, 'जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चैव स्त्रीशूद्रपतनानि षट्' ॥ इत्येतेषां संग्रहः । विदुरादीनां तीर्थयात्रादिदर्शनात् । इतरेषां त्वेतानि निषिद्धान्येव । अत एवेदानीन्तनानां तत्कर्तॄणां कामक्रोधादय एव दृश्यन्ते, न तूपशम इति । एतदधिकरणद्वयं प्रासङ्गिकम् । रश्मिः। ज्ञानानुष्ठानयोः प्रतिषेधो भवति इति शंकरभाष्यम् । तत्र अनुष्ठानमधिकम् । अधिकरणेति न चानुक्तस्याधिकरणसंपूर्णत्वस्य वाचकश्चकार इति शङ्क्यम् । स्मृतिसमुच्चयवाचकत्वेन तस्यार्थस्य व्यञ्जनया द्योतत्त्वात् । स्मार्तपौराणिकज्ञानादाविति भाष्ये स्मार्तानां पौराणिकानां ज्ञानादाविति षष्ठीतत्पुरुषमित्याहुः बुद्धिमतामपि स्मार्तानां पौराणिकानां च । आसक्ताविति । पुष्टिप्रवाहमर्यादास्था कारिका । अन्यासक्तौ सत्याम् । यथा नलकुबरमणिग्रीवादेः । क्वचिदिति यत्रासक्त्यौत्कण्ठ्यं तत्र काले देशे वा । एवमहंकारे यथा चित्रकेतुपरीक्षितोः इन्द्रद्युम्नादौ। उभयाभावे कथं शाप इत्याशङ्क्याहुः लोक इत्यादि । यद्येवं न कुर्यात्तदा लोके मक्ताद्याविर्भावाभावात् मर्यादादिमार्गा न भवेयुः तथा सति लोकोच्छित्तिः स्यादतो लोकसंग्रहार्थं तथाकरणम् । अत्र गमकमाहुः हीति । 'यद्यदाचरति श्रेष्ठस्तत्त- देवेतरो जनः' इति वाक्येन तथा निश्चयात् तत्रेति पुराणादौ तृतीयस्कन्धे मैत्रेय उवाच 'यत्त्वयानन्यभावेन गृहीतो हरिरीश्वरः' इति विदुरम् । विवृण्वन्ति स्म अत्रापीति इयं शास्त्रार्थ प्रकरणे । प्रव्रज्येति संन्यासः । अत्र शूद्रपदं कर्मजातिशूद्रपरमित्याहुः विदुरेति । इतरेषामिति कर्मजातिशूद्राणाम् । फलेति । 'अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे । लोकस्याजानतो व्यासश्चक्रे सात्वतसंहिताम्' ॥ इति । 'तस्माद्भारत सर्वात्मा भगवान् हरिरीश्वरः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताऽभयम्' ॥ इति वाक्येोफलबलत्वात् । तेनेति शूद्रेष्वपि शापशूद्रकर्मजातिशूद्रयोर्भेदेन । अथेदमिति अत्रापि पूर्वमिदं विचार्यते अत्र मनुस्मृतय उपन्यस्ताः । तास्तु श्रौतधर्मबोधकश्रुतिबाधिताः किं च सत्ययुगे प्रचारिता त्रेतादावव्याप्ता । अपि च वसिष्ठहारीतब्यासपराशरभरद्वाजकश्यपप्रणीताः सात्विक्यः । याज्ञवल्क्यात्रितित्तिरिदक्षकत्यायनविष्णुप्रणीता राजस्यः । गौतमबृहस्पतिसंवर्तयम- 750