अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 853, कुल 2600 में से
संदर्भ में पढ़ें७६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ११ सू० ४० ज्योतिर्दर्शनात् ॥ ४० ॥ (१।३।११) 'य एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरभिसंपद्य स्वेन भाष्यप्रकाशः। यत्तु शंकराचार्यैरत्र ब्रह्मप्रतिपत्तौ पूर्वोत्तरपर्यालोचनादिति हेतुरुक्तः । तन्तु सूत्रमेव विरुणद्धि । सूत्रे कम्पनस्यैव हेतुत्वेन कथनात् । योऽप्येजयितृत्वस्य ब्रह्मधर्मत्वे न प्राणेनेति मन्त्रस्य तद्बोधकतयोपन्यासः सोऽपि तथा । मन्त्रे जीवनस्य तथात्वेनोक्ततया कम्पनाबो- धकत्वादिति ॥ ३९ ॥ इति दशमं कम्पनाधिकरणम् ॥ १० ॥ ज्योतिर्दर्शनात् ॥ ४० ॥ य एष इत्यादि । इदं छान्दोग्ये दशमप्रपाठके दहरविद्याया- मिन्द्रप्रजापतिसंवादे च पठ्यते । एतावान् परं विशेषः । पूर्वत्र, निष्पद्यत इत्यनन्तरं स आत्मेति वाक्यशेषः । द्वितीये तु, स उत्तमः पुरुष इति । तत्रोत्तरवाक्यमसंदिग्धम् । गीतायाम्, 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः' इत्युपबृंहणेनास जीवबोधकताया वक्तुमशक्यत्वात् । तेन स रश्मिः। 'चक्रं चंक्रमणान्देव वर्जनाद्ब्रजमुच्यते । खण्डनात्खङ्ग एवैष हेतिनामा हरिः स्वयम्' ॥ इति । स्वयं पदादिदं भगवतो मारकं रूपम् । प्रकृतमनुसरामः । पूर्वोत्तरेति । पूर्वोत्तरयोः श्रुत्योः पूर्वोच्यते । 'तदेव शुक्लं तद् ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन' ॥ इति तद्भाष्ये । उत्तरोच्यते । 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' ॥ इति । उभयत्रापि ब्रह्मैव प्रतिपाद्यते न वायुरिति मध्येऽपि ब्रह्मैव प्रतिपाद्यम् । न प्राणेनेति । 'न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ' ॥ इति मन्त्रस्य ॥ ३९ ॥ इति दशममधिकरणम् ॥ १० ॥ ज्योतिर्दर्शनात् ॥ ४० ॥ दहरविद्यायामिति पूर्वान्वयि । तत्रेति । द्वितीये इन्द्र- प्रजापतिसंवादे । जीवेति यथा स आत्मेत्युत्तरवाक्ये आत्मपदस्य जीवबोधकत्वमपि अयमात्मा ब्रह्मेति श्रुतेः । तथा जीवबोधकताया इत्यर्थः । तेनेति । इयमिन्द्रप्रजापतिसंवादस्था । स उत्तमः पुरुषरूपः । तत्र पुंसवोत्सवे क्रीडन् क्रीड विहारे । रममाणः पर्यति पर्यटति स्त्रीभिरिति मानसोरथस्त्रीभिः सह यानैर्वा ज्ञातिभिर्वा । न उपजन५ सूक्ष्मशरीरं इदं स्थूलशरीरं च स्मरति । स यथा प्रयोग्य इति । प्रयोग्यः प्रयुज्यते इति प्रयोग्यः श्वादिः । आचरणे आचरति गच्छत्यनेनेत्याचरणं रथादिकम् युक्तः । एवमेवास्मिन् विस्मृतशरीरेऽयं प्राणो ईश्वरेण नियुक्तो वर्तते । श्रुतिस्तु 'तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा ज्ञातिभिर्वा नोपजन५ स्मरतीद५ शरीर५ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्शरीरे 760