भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 854, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 854

यहाँ पृष्ठ की सामग्री का शुद्ध देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७६१ रुपेणाभिनिष्पद्यते' इति । तत्र संशयः । परं ज्योतिर्महाभूतरूपं ब्रह्म वेति । ब्रह्मधर्माश्च ये केचित् सिद्धा युक्त्यापि साधिताः । निर्णायकास्ततोऽप्यन्ये चत्वारोऽत्र निरूपिताः ॥ भाष्यप्रकाशः तत्र पर्यैति जक्षन् क्रीडन्नित्यग्रिमे वाक्ये तच्छन्दद्वयेनोभयोः परामर्शेऽपि विभक्तिसामाना- धिकरण्यं संनिधिं चानादृत्य व्यवहितं व्यधिकरणविभक्त्योपहितमपि ब्रह्मैवादरणीयमिति निश्चयात् । अतो दहरविद्यास्थं वाक्यमेव विषयः । संशयस्तु स्फुट एव । तद्बीजं तु प्रकरणा- पेक्षया श्रुतेः प्राबल्यम् । ज्योतिश्चरणाधिकरणेनास गतार्थत्वनिरासायास्य प्रयोजनं कारिकयाहुः ब्रह्मेत्यादि । चत्वार इति । उपसंपद्यव्यत्वम् उपसंपन्नस्वरूपाभिनिष्पादकत्वम् । पूर्ववाक्यगतं रश्मिः । प्राणो युक्त' इति । उभयोरिति जीवोत्तमपुरुषयोः । अनादृत्येति । स तत्रेति विभक्तिसामाना- धिकरण्यानादरः स तत्रेत्यत्रैव संनिध्यनादरः जीवद्वारा पर्यटनसम्भवे सत्त्वात् तत्रेति सप्तमी । 'चैत्रस्य तत्त्वममलं मणिमस्य कण्ठे' इति वाक्याजीवचैत्रम् । क्षतत्वव्यवहितमप्युभयं ब्रह्मैव । ननु एकरसत्वास- ङ्गत्वविरुद्धमिदं रूपमिति चेत्तत्राहुः आदरणीयमिति श्रुतिप्रामाण्यादादरणीयम् । ननु श्रुतिरन्यथा भवतीति चेत्तत्राहुः इति निश्चयादिति । (भाष्ये) विरुद्धधर्माश्रयत्वोपपादनमिति इति निश्चयात् । किं च सुषुप्तिसामयिकं रूपं निर्गुणमिति हेतोर्निश्चयात् । सगुणनिर्गुणयोरेक्याच्च विद्वन्मण्डने इति । अत इति इन्द्रप्रजापतिसंवादस्थस्यासंदिग्धत्वात् । दहरविद्यास्थ संदिग्घत्वात् । स्फुट इति दहरविद्यास्थे स आत्मेल्येवं य एष संप्रसाद इति वाक्यस्य शेषे वाक्ये तच्छब्देन महाभूत- ज्योतिःसंपन्नजीवात्मा वा ब्रह्मरूपज्योतिःसंपन्नजीवात्मा वेति संदेहज्ञाने विशेषणभूतविषयवाक्योक्त- ज्योतिर्ज्ञानं कारणम् । किं ज्योतिर्ब्रह्म उत महाभूतमिति तस्मात्संशयः स्फुटः । कल्पितसंशय- बीजं तु स आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति वाक्यशेषे ब्रह्म इत्यस्य विधानार्थ उपासार्थश्च ग्रहणसंभवः । न च कल्पितसंशये भाष्यसंशयपर्यवसानमिति शङ्क्यम् । भाष्यसंशयान्निर्मिरात्मनो ब्रह्मरूपज्योतिःसंपन्नजीवत्वत्वे निश्चिते स आत्मेति होवाचैतदमृतमभयमेतद् ब्रह्मेत्यत्र आत्मा ब्रह्मरूपज्योतिःसंपन्नजीवात्मा न महाभूतज्योतिःसंपन्नजीवात्मेति सिद्धान्तसंचारात् । स आत्मेति वाक्यशेषस्य एष आत्मेल्यपि पाठः कचित्पुस्तके तेनैव ब्रह्मेत्यस्योपासार्थत्वहानेः कल्पितसंशयोपशमः । प्रकृतमनुसरामः । भाष्यप्रकाशे श्रुतेरिति रूढिर्योगमपहरतीत्यस्याः पूर्वत्रासति बाधकेऽङ्गीकारोक्तेः । अत्ररत्राप्राप्तव्यादकारणत्वान रूढेरित्युक्त्या श्रुतेरित्युकम् । सा च परं ज्योतिरित्यत्र कर्मवाचक- द्वितीयाश्रुत्या उपसंपदनाङ्गत्वं उपसदनकर्मत्वम् । अत्र लिङ्गादिकल्पनव्यतिरेकेण महाभूत- ज्योतिर्वासनाप्राबल्यात् प्रतीयते इति बीजत्वम् । श्रुतेर्निरपेक्षस्वरूपायाः । ब्रह्मेत्यादीति निरूपणं हि लक्षणैस्तानि चासाधारणधर्मरूपाणि इति ब्रह्मनिरूपणार्थं धर्मोपेक्षायां ब्रह्मधर्माश्चकारात् तादृशं ब्रह्म यद्वा चकारात् जीवमुख्यप्राणलिङ्गानि । 'जीवमुख्यप्राणलिङ्गादिति चेन्नोपासात्रैविध्यादा- श्रितत्त्वादिह तद्योगात्' इति सूत्रभाष्ये जीवमुख्यप्राणव्यवहिताः । ये केचिदिति सामान्यतो निर्देशः । सिद्धा इति सत्यज्ञानानन्तानन्दादयः ते जन्माद्यस्य यत इत्यधिकरणे यत इति पदेन ब्रह्मवाक्यत्व- निर्णायकाः निरूपितप्रायाः युक्त्या अपिपदेन श्रुत्या च समन्वयाधिकरणेषु समवायिलेना- नन्दत्वादयः साधिताः परेषां मतभेदेन । निर्णायका निरूपिताः ततोऽप्यन्य इति तेभ्योऽन्ये । 761