अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 855, कुल 2600 में से
संदर्भ में पढ़ें७६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ११ सू० ४० तत्र रूप्योपपत्त्या च महाभूतमेव ज्योतिरित्येवं प्राप्ते । उच्यते । ज्योति- र्ब्रह्मैव । कुतः । दर्शनात् । सर्वत्र दर्शनं न्याय इति यावत् । सुषुप्तौ सर्वत्र, 'सता सौम्य तदा संपन्नो भवति । सति संपद्य न विदुः सति संपद्यामहे' इति । भाष्यप्रकाशः हृदयत्वं सत्यपदोक्तं मर्त्याऽमृतनियामकत्वं चोत्तरवाक्यगतम् । तथापि हिरण्यनिधिरित्या- रम्यैवंविद् स्वर्गं लोकमैतीति वाक्यैक्यात् । निरूपिता इति निर्णायका निरूपिताः । अतो न गतार्थतेत्यर्थः । पूर्वपक्षमाहुः तत्रेत्यादि । उपपत्त्येति । अस्माच्छरीरात् समुत्थायेत्यादि- बोधितया तथा । राजशिबिराणि तीरात् समुत्थितानीत्यादौ लोके समुत्थानस्योद्गमने प्रयोगदर्श- नादत्र च शरीरादुद्गमनोत्तरं ज्योतिष उपसंपत्तिबोधनात् । तस्याश्चार्चिरादिमार्गेण जीवस्य गमने अर्चिराद्यपेक्षया आदित्यादेः परत्वादिति । सिद्धान्तमाहुः उच्यत इत्यादि । सर्वत्र दर्शन- मिति । समानप्रकरणे एतत्स्थाने ब्रह्मवाचकपददर्शनम् । तथा च यत्र ब्रह्मवाचकं पदमभिधीयते तस्मिन् स्थाने । अत्र ज्योतिःपदं दृश्यते अतस्तथेत्यर्थः । तदेव दर्शयन्ति सुषुप्तावित्यादि । रश्मिः । उपेति परंज्योतिरुपसंपद्य इत्यनेनोपसंपत्तव्यत्वं स्वेन रूपेणाभिनिष्पद्यत इत्यनेनोपसंपन्नेत्यादिः। पूर्वेति स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳहृदयमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमैतीति श्रुतिगतम् । हृदीत्यत्र ङेर्लुक् हृदयस् । उत्तरेति उत्तरवाक्यं तु तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति तानि ह वा एतानि त्रीण्यक्षराणि सतियमिति तद्यत्सत् तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा य एवंवित्स्वर्गं लोकमैतीति श्रुतिवाक्यगतम् । सतीत्यत्र ङेर्लुक् सत्यस् । यमित्यत्र कर्तरि अन्येभ्योपीति यस् । यच्छादेशो दाण्धातोः। स इत्यस्य पारिभाषिकोऽर्थोऽवगन्तव्यम् । मर्त्यं त्यित्यस्य । ननु य एष संप्रसाद इति श्रुतावेव चत्वारो धर्मा वक्तव्या इत्याकाङ्क्षायामाहुः तथायेति । न गतार्थतेति तथा च ज्योतिश्चरणाधिकरणे ज्योतिष्टुं श्रुतियुक्तिभ्यां साधितो धर्मोत्र तु उपसंपत्तव्यत्वं सिद्धप्रायं ज्योतिष्टुं पुरस्कृत्योच्यते इति तथेत्यर्थः । कथमस्य युक्तित्वं अत आहुः राजेति । तथा च दृष्टान्तेनोपपादनं युक्तिर्यथा श्वेतकेतूपाख्याने न्यग्रोधफलमाहरेत्यादि । न त्वन्वयाज्ञानरूपस्तर्कः । इतीति राजेत्यादिदृष्टान्ते राजशिबिराणि तीरात्समुत्थितानि स्नेहाद्देशपूर्वदेशात् महाभूतज्योतिःज्ञानापन्नान्याप्य स्वरूपसप्लानीयामिहरेतं प्राप्नुवन्तीति । तथा च शांकरभाष्यम् । नाडीखण्डे अथ यत्रैतदस्माच्छरीरात् उत्क्रामति अथ एतैरेव रश्मिभिरूर्ध्वमाक्रमते इति मुमुक्षोरादित्यप्राप्तिरभिहितेति । समानेति इदं प्रकरणं वाजिनायतो वाजिशाखायामेतद्वाक्यं द्रष्टव्यम् । न बृहदारण्यके न छान्दोग्येऽन्यत्रैव वाक्यमिदम् । 'शब्दविशेषात्' इत्यधिकरणे स्पष्टः समानप्रकरणविचारः । तथेति ज्योतिःपदस्य ब्रह्मवाचकत्वम् । सुषुप्ता- वित्यादीति इमाः श्रुतयोऽष्टमप्रपाठकस्थे द्वे दशमसातौपनिबन्धनाऽपरा इत्येवं तिस्रः । अत्र सम्पद्यस्य ब्रह्मणि शक्तिः 'ॐ तत् सदिति निर्देशो ब्रह्मणः' इति गीतायाः। अत्र ब्रह्मण्योति- र्दर्शनादिति जिज्ञासाधिकरणाद् 'ब्रह्म' इत्यनुवृत्तं पदं ब्रह्म कृत्वा सूत्रार्थो न भवति पक्षस्य सूत्रेऽनु- पादानात् । किं तु ज्योतिर्ब्रह्मदर्शनात् । ज्योतीरूपपक्षस्य सूत्रे उपादानात् । अत एव पक्षहेत्व- शदानकृतदोषोपि न । पर्वतो धूमादित्यप्रयोगः पर्वतस्य प्रत्यक्षत्वात् । तद्वज्ज्योतिषः शब्दप्रत्यक्ष- विषयस्य पक्षत्वं दर्शनादित्युक्ते दर्शननिष्ठत्वाद्दिमर्त्यो भवति तथा प्राप्नोत्या महासम्प्रति । तद्धारणाच्च 762