अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 858, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७६५ यद्भूताकाशस्य प्रयोजनं श्रुतिसिद्धं, तस्मादन्यस्य व्यपदेशः कार्यान्तराद्विव्यपदे- शश्च । यत्रैव हि सिद्धवत्कारेणोत्कृष्टधर्मा अतदीयास्तदेव ब्रह्मेति । नापि नाम- रूपनिर्वोढृ आकाशस्य माहात्म्यहेतुर्भवति । वै निश्चयेनेति सिद्धवत्काराद्योपा- सनापरत्वम् । भाष्यप्रकाशः । न्तरेत्युक्तस्य नामरूपान्तर्वर्तित्वस्य तथात्वम् । व्यापकत्वाऽऽकाशेऽपि तत्सिद्धेः । अत उपक्रम- गतस्याकाशपदस्योच्चारणमात्रेण भूताकाशावगमात् स एव ग्राह्य इत्येवं प्राप्त इत्यर्थः । सिद्धान्तं व्याचक्षते । यद्भूतेत्यादि । अर्थः प्रयोजनं यद्भूताकाशस्य श्रुतिसिद्धं वायुजननं तस्मादन्यस्य व्यपदेशः । ते यदन्तरेत्यनेनोक्तस्यासमन्तात् तदन्तःस्थापनरूपस्याद्विपदेन ब्रह्मणोदेश्च यो व्यपदेशः कथनम् । तथा च, अन्तरः अर्थो यस्मादित्यर्थान्तरम् । वाऽऽहिताग्न्यादिष्विति परनि- पातः । एवमत्र बहुव्रीहिणा कर्ता बोध्यते । अन्योऽर्थोऽर्थान्तरमिति नित्यसमासपक्षे लक्षणया कर्तुलाभः । तस्य भावोऽर्थान्तरत्वम् । तदादीनि । ते यदन्तरेत्युक्तं बहिःष्ठान्तःस्थापनम् । रश्मिः । सादृश्यात्मकशक्यसम्बन्धरूपा गौणी तया नेतुं तथथा आकाशो ह वा इत्यत्र गद्य आकाशं ब्रह्म सत्वत्वादिविशिष्टसत्यत्वायुपचारविशिष्टा अर्था बृंहणनिलत्वव्यापकत्वानि ब्रह्मविशिष्टानि तैः सादृश्यं ब्रह्मगतभूयोधर्मवत्त्वमाकाशे तदेवाकाशे शक्यस्य ब्रह्मत्वादिविशिष्टब्रह्मणः संबन्धः । तद्रूपा गौण्याकाश श्रुति लक्ष्णसमन्वयः । यथा छत्रिणो यान्ति इत्यत्रेयम् । उपचारो लक्षणा यत्राऽजैव शक्यस्य सत्यादेः संबन्ध आवेयता बृंहणादिनिष्ठा । तदुक्तम् 'लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता' इति काव्यप्रकाशे । तथात्वमिति ब्रह्मधर्मत्वं तु अस् । ज्ञेयं भातीत्यर्थः । अस् ज्ञैय्यात्म्योरिति मनोरमा । ते नामरूपे यद्यस्यान्तरा मध्ये इति श्रुत्यर्थः । वाय्विति । आकाशाद्वायुरिति श्रुतेः तैत्तिरीयायाः । वायुजननं प्रयोजनं फलं कार्यमिति यावत् । अन्तर आ इति छेदं मत्वाहुः आसमन्तादिति । हरिम्यां याह्योक आ इतिवत् । छन्दसि परेपीति परनिपातः अन्तःस्थापनं बहिष्ठस्य । ब्रह्मण इति तद्ब्रह्म तदमृतं स आत्मेति श्रुत्युक्तस्य । अन्तर इति । वायुजननादन्तरोऽन्यः । बहि- ष्ठस्यान्तःस्थापनरूपः । अर्थः कार्यं यस्मात् कर्तुः 'जनिकर्तुः प्रकृतिः' जायमानस्य हेतुरुपादानं स्यात् इति पञ्चमी क्वचित् । परनिपात इति अर्थो जायमानो विवक्ष्यते । क्वचिदाहिताग्न्यादीनामप्याकृति- गणत्वादिति भावः । आहिताग्निः अन्याहितः जातपुत्र पुत्रजातः जातदन्ता जातश्मश्रुः तैल्पितः शृतपीतः ऊढभार्यः गतार्थः इत्याहिताग्न्यादयः । ननु षष्ठीसप्तम्यौ बहुव्रीहावन्यपदार्थोत्तरं कुतो नोक्ते अत आहुः एवमत्रेति । ननु नित्यसमासः कुतो न कृत इत्याकाङ्क्षायां लक्षणापत्या न कृत इत्याहुः अन्य इति । लक्षणयेति । शक्यसंबन्धः कार्यकारणभावः । सूत्रे भावप्रत्ययान्नान्वे विशेषे पूरयन्तः आहुः तस्य भाव इति भाष्यशेषपूरणागोपे आकाशाभ्यन्तरादिव्यपदेशादिति पाठो अन्यते । कुतः, अतोऽर्थान्तरं बहिस्स्थान्तःस्थापनं तस्य व्यपदेशोत्र न त्वन्तःस्थापनस्येति । परं साहसेन पाठो न ध्येचितः लपदह्वितपाठादर्शनात् । कार्यान्तरेति भाष्यं विवृण्वन्ति स्म तदादीनीति । कार्यान्तरं कार्यं वायुजननं तदन्यद् बहिटस्वान्तःस्थापनं भावप्रधानो निर्देशः । एव तच्छब्दार्थः । बार्थान्तरत्वमिति यावत् एष तच्छब्दार्थः । तत् बर्यान्तरत्वमादिर्येषां तानि तदादीनि सामान्ये नपुंसकं यद्वा 765