भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 859, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 859

७६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १२ सू० ४१ भाष्यप्रकाशः ब्रह्मादिश्रुतयश्च । तेषां व्यपदेशात् कथनादाकाशो ब्रह्मैव । नहि रूपान्तर्गतस्य निरूढस्या- काङ्क्षासङ्कुचितं तन्निर्वोढृत्वं संभवति न वा क्वापि श्रुतावाकाशमाहात्म्यहेतुत्वेन तदुक्तमस्ति । नाप्यसङ्कुचितं तयोरन्तःस्थापनं बृंहणं वा तथा । वायुजनकत्वस्यैव श्रावणात् । अत आकाशा- कार्यातिरिक्तकार्यकर्तृत्वादेरुक्तत्वाद् ब्रह्मादिश्रुतीनां चानुकूल्यादुपसंहारस्य प्राबल्यमिति ब्रह्मै- वाकाशः । स्वारसिकं च शब्दानां ब्रह्मवाचकत्वमतो न लक्षणादोषोऽपि । तेनेदं सिद्धम् । यत्रैव रश्मिः । कार्यान्तरादिव्यपदेशश्चेति भाष्यस्यायमर्थः । कार्यमर्थान्तरत्वं तदन्यत् बहिष्ठान्तःस्थापनं तत्कार्यान्तरं तदादि येषामिति तदादीनि । भाष्ये चकारश्रावणात् । नन्वर्थान्तरत्वादिव्यपदेशादित्यत्र नामरूप- निर्वोढृत्वं हेतावप्रविष्टमिति न्यूनतादोषस्तद्धारणायाहुः नहीति । रूपप्रपञ्चः नामप्रपञ्चश्च तयोर्मध्ये रूपप्रपञ्चान्तर्गतस्य निरूढस्य नामरूपाभ्यां अन्य इव ऊहः वह प्रापणे प्राप्यस्य निर्वाहासहं तर्क्यस्य वा ऊह वितर्के ऋहलोर्ण्यत् । तन्निर्वोढृत्वं रूपनामनिर्वोढृत्वम् । तदुक्तमिति निर्वोढृत्वमुक्तम् । तथेत्याकाशकार्यत्वेनोक्तम् । 'तदमृतं स आत्मा' इति श्रुतेः । विषयवाक्येनुक्तैर्बृहणपर्यन्तमुक्तम् । उपसंहारस्येति आकाशो ह वा इत्यत्राकाशपदमुपक्रमे । उपसंहारे तद् ब्रह्मेति ब्रह्मपदं स आत्मेति आत्मपदं वा । तत्रोपक्रमस्य भाष्योक्तरीत्या संजातविरोधित्वेन प्रकरणादुपसंहारस्यासंजातविरोधित्वेन प्राबल्यम् । नन्वाकाशपदं वियति रूढं आकाशशरीरं ब्रह्मेति धारणे । 'आत्मन आकाशः संभूतः' इति तैत्तिरीये च तन्न ब्रह्म आकाश इत्युक्तौ शरीरशरीरिभावसंबन्धो वा कार्यकारणभावसंबन्धो वा लक्षणा वान्येलत आहुः स्वारसिकमिति । वेदान्ते असति बाधके रूढिर्योगमपहरतीति ह्युतस्त तदनादरश्रवणादिति सूत्रे व्युत्पत्तेर्विशेषितत्वेन प्रकृते व्याकरणरूपाङ्गबाधरूपबाधकस्य सत्त्वात् बाकाश्यते दीप्यते इत्याकाश इति योगस्य सुवचत्वेन स्वारसिकत्वम् । तथा चार्थान्तरत्वस्यादी आकाशत्वनामरूपत्वनिर्वोढृत्वे ते अर्थान्तरत्वाद्यौ च अर्थान्तरत्वाद्यश्चार्थान्तरत्वाद्यः स्वरूपैकशेषः अर्थान्तरत्वादीनां व्यपदेशः अर्थान्तरत्वादिव्यपदेशस्तस्मादिति हेत्वर्थः । सिद्धमाहुः तेनेति । इदं भाष्ये व्युत्पादनं व्युत्पत्तिरिति यावत् । वक्ष्यते प्रकारभेदेन यत्रैवाकाशादौ सिद्धवत्कारेण भावे घञ् सिद्धवत्कारेण वा इत्यादिपदयोगेनोत्कृष्टनामधर्मरूपनामनिर्वाहकत्वादयः अतदीया यत्र इति निर्दिष्टाधिकरणाः संबन्धिनः तदेवाधिकरणं ब्रह्म यथानाकाशः परमात्मा यथा च उषा वा अश्वस्य शिरः सूर्यश्चक्षुः वातः प्राणः इति अत्रैवकारेण सिद्धवत्कारोस्ति अतदीयाः ब्रह्मसंबन्धिनः तद्ब्रह्मरूपाधिकरणं ब्रह्म न ह्यः व्युत्पत्तौ दशमस्य विशुद्धयर्थं नवानामिह लक्षणमिति द्वितीयस्कन्धा- चैवेह किं च नात्र आसीदिति श्रुतेरिहेलाश्रयनियद्देशादन्यविभक्त्यन्तं पदं तत्त्वा सप्तम्यन्तमुक्तम् । यत् सिद्धवत्कारेण उत्कृष्टधर्मा इत्यत्र प्रकाशाश्रयन्यायेनाभेदान्वयः । सूर्यः प्रकाश इतिवत् । एवं यत्प्रति सिद्धवत्कारेणोत्कृष्टधर्माः येन सिद्धवत्कारेणोत्कृष्टधर्माः यस्मा उत्कृष्टधर्माः यस्मादुत्कृष्टधर्माः यस्योत्कृष्टधर्माः इत्यत्र यल्लक्षीकृत्योत्कृष्टधर्मा इत्यादि बोध्यम् । एवकारेणेन्द्रप्रतर्दनसंवादे जीवीयधर्माः जीवे यत्रेति यत्पदवाच्यप्राणरूपाधिकरणात् अन्यस्मिन्नतदीयाः अप्राणसंबन्धिनः उक्ता इति जीवस्य व्यवहारकाले भेदेन व्यपदेशस्सांशिमत्वलापत्तिवार्यते । जीवस्य प्राणेतरस्य व्यवच्छेदात् । इतरव्यव- च्छेद एवकारार्थः । 'प्राणस्तथानुगमात्' इत्यधिकरणे इन्द्रप्रतर्दनसंवादो व्याकृतः । सिद्धवत्कारेनेति पदं नेन्न दीयते तदा 'शंयुर्विश्वमवतथ सीकृत्य समगृह्णीताम्' इत्यन्नोक्तमुलतथा राज्ञः शंयुत्वापत्तिः 766