भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 862, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 862

स्वयमेव न्याय इति । तस्माद् यत्रैवातद्धर्मकथनमन्यवाच्यस्य तत्रैव ब्रह्मपरत्व- मिति सिद्धम् ॥ ४१ ॥ इति प्रथमाध्याये तृतीयपादे द्वादशमर्थान्तराधिकरणम् ॥ १२ ॥ भाष्यप्रकाशः। तंतश्च वाक्यस्यापि ब्रह्मवाक्यत्वं सुखेनैव सिद्ध्येदित्यत आहुः तस्मादित्यादि । अन्यवा- क्यस्येति अन्यवाचकपदवाच्यस्य । तथा चैतदर्थं पक्षनिर्देश इत्यर्थः । एवं प्रयोजनकथनेनास्य, तल्लिङ्गाधिकरणेन गतार्थता तत्प्रपञ्चत्वं च निवारितम् । अत्र चाकाशस्य नामादिनिर्वाहकत्वेन स्थितिकर्तृत्वस्यातिव्याप्तिमाशङ्क्य बुद्धिस्या सा निवारिता । यत्तु शिवतत्त्वविवेके, उपक्रमस्थाभ्यामाकाशश्रुतिप्रसिद्धलिङ्गाभ्यामस्य वाक्यस्य भूताकाश- परत्वेऽपि पाश्चात्यानामसंकुचितनामरूपनिर्वोढृत्वतदर्थान्तरत्वामृतत्वलिङ्गात्मश्रुतीनां भूय- स्तया प्राबल्यात् तदनुरोधेनोपक्रमप्रापितमपि भूताकाशपरत्वमपोद्य ब्रह्मपरत्वं स्थाप्यत इत्युक्तम् । तत् सूत्रविरुद्धमेव । लिङ्गभूयस्त्वस्यात्र हेतुत्वानुल्लेखात् । यत्तु शंकराचार्याः । ते यदन्तरेत्यस्य नामरूपे यद्भिन्ने इत्यर्थान्नामरूपाभ्यां व्यतिरिक्त- मर्थान्तरं व्यपदिशतीति नामरूपव्यतिरिक्तत्वं ब्रह्मलिङ्गं हेतुकृत्यास तल्लिङ्गाधिकरणप्रपञ्चत्वमूचुः । तन्मतेऽधिकरणवैयर्थ्यमेव । निर्वाहस्य स्थितिरूपत्वेन तल्लिङ्गाधिकरणविषयवाक्यादेव रश्मिः। व्युत्पत्तिसमन्वयः । यत्रैवाकाशो नामरूपयोर्निर्वहितेत्यत्रैव अन्य अन्यपदवाच्यस्याकाशस्यातद्धर्मास्ते यदन्तरा तद् ब्रह्मेत्यादयस्तेषां कथनमिति तत्रैव आकाशो ह वै नामरूपयोरित्यत्रैव ब्रह्मपरत्वमिति । एतदर्थमिति अन्यवाच्यस्येत्यर्थः । ननु पक्षनिर्देशोऽनुचितः । 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति श्रुत्या तन्निषेधादिति चेन्न भाष्येणौपनिषदपुरुषव्याख्याने तत्प्रकाशे तदनुगुणामुमानस्यानोचि- तत्वात् । 'अत्र मां मार्गयन्त्यद्धा युक्ता हेतुभिरीश्वरम्' इति वाक्यात् । तल्लिङ्गाधिकरणस्य प्रयोजनमा- काशपदार्थो ब्रह्मेति भाष्यात् तत्रत्यादाकाशपदार्थाभेदो ब्रह्मणः अस्याधिकरणस्य तु यत्रान्यवाचकपद- वाच्ये सिद्धवत्कारेणोक्ता धर्माः अतदीयाः तदेवार्थापत्त्या ब्रह्म ज्ञेयमिति प्रयोजनं तदाहुः एवं प्रयोजनेति । असंकुचितेति आकाशस्य कार्यत्वेन नामरूपनिर्वाहस्यापि कार्यत्वात् तेन संकुचितं ईश्वरे तु कारणत्वान्न तेन संकुचितमित्यसंकुचितेत्यर्थः । तदर्थेत्याकाशादर्थान्तरत्वेत्यर्थः । असंकुचितेत्यादीनाममृतत्वान्तानां लिङ्गानि ब्रह्मात्मनोः श्रुती । तानि च ते चासंकुचितनामरूप- निर्वोढृत्वतदर्थान्तरत्वामृतत्वलिङ्गब्रह्मात्मश्रुतीनाम् । तदनुरोधेनेति श्रुतिलिङ्गानुरोधेन । हेतुत्वेनेति न चार्थान्तरत्वादीत्यादिपदेन लिङ्गभूयस्त्वप्राप्तिरिति शक्यम् । उल्लेखपदेन सौत्रहेतुतावच्छेदकाना- क्रान्तत्वात् । श्रुतिलिङ्गे न लिङ्गमिति प्रतीतेः । श्रुतिलिङ्गयोः लिङ्गेनाभेदोपि न संभवति । तल्लिङ्गेति विषयवाक्यं तु अस्य लोकस्य का गतिरित्यादि आकाशः परायणमित्यन्तम् । न च निर्वाहस्य ब्रह्मधर्मत्वं न श्रुत्यन्तरसिद्धमिति भाष्यविरोध इति शङ्क्यम् । ते यदन्तरा तद्ब्रह्मेति श्रुत्या निर्वोढे नामरूपे ब्रह्ममध्ये स्तः इत्यर्थो हि अन्तःस्थापनमन्तरा न भवतीत्याशयेन ते यदन्तरेत्यनेनोक्तस्या- संभवात् तदन्तःस्थापनरूपस्येति भाष्यप्रकाशस्य प्रणयनान्न स्थितिरूपार्थो निर्वाहस्य किं तु व्योमक्षेमरूपः तस्यान्तःस्थापनेन साकं जन्यजनकभावसंबन्धान्निर्वाहस्यान्तःस्थापनं लाक्षणिकोर्थ इति । न च तल्लिङ्गाधिकरणविषयवाक्यगतस्य आकाशस्थितिकर्तृत्वस्य स्थितिरूपत्वेनात्राधिकरणे चान्तः-