अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 868, कुल 2600 में से
संदर्भ में पढ़ेंयोऽयं विज्ञानमयो ज्ञानरूप इन्द्रियेषु हृदि च प्रकाशमान इत्युत्तरे, जीवोऽप्ये- तादृश इति तन्निराकरणार्थं स समानः सन् जीवतुल्यः सन् क्रीडतीत्याह । भाष्यप्रकाशः उक्तः । तत्र युक्तिस्तु यदि जीवः स्वज्योतिः स्यादादित्यादिसत्तायामपि तदनपेक्ष एव पर्य- यनादिकं कुर्यात् । एवं त्वादित्यादिवद् यदा भगवाननुगृह्णाति तदा तत् कुरुते, नो चेन्नेति कार्यकादाचित्कत्वरूपाऽवगन्तव्या । तस्या अनुक्तत्वादात्मज्योतिरित्युरानन्तरं राज्ञा आत्म- विषयकः, कतम आत्मेति प्रश्नः कृतः । स च न देहेन्द्रियप्राणान्तःकरणेष्वन्यतमस्यात्मत्वसं- भावनामूलकः । सम्राट्त्वेन बहुश्रुततया तस्य तत्कोट्यनुपस्थानात् । मेधावी राजेत्यग्रे कथनाच्च । किं तु जीवब्रह्मकोटिकमूल एव । तादृशे प्रश्ने, योऽयमित्यादिनोक्तमुत्तरम् । तत्रान्तर्ज्योति- रित्यस्य ते