अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 869, कुल 2600 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the Sanskrit text from the provided image in Unicode Devanagari:
तन्निराकरणार्थं स समानः सन्नित्याह । एवं विज्ञानमयत्वस्य प्राणान्तर्वर्तित्वस्य च साधा- रण्यबोधनेन तयोर्जीवलिङ्गता निवारिता । तेनैवोपसंहारस्यापि जीवपरत्वं वारितप्रायमेव । अतःपरं स समान इत्यादेरर्थो विचार्यते । तत्र स इत्यादित्यादिवज्जीवानुग्राहकः । क्रीडा तु, उभौ लोकौ संचरति ध्यायतीव लेलायतीवेत्युक्ता । लेलायतीवेत्यस्य लोलायतीवेत्यर्थः । ओकारस्थान एकारः । यत्तु विज्ञायतेऽनेनेति विज्ञानं बुद्धिः । तन्मयस्तत्प्रायः प्राणेष्विति सामीप्ये सप्तमी । बुद्धीन्द्रियकर्मेन्द्रियप्राणात्मकपञ्चदशप्राणसमीपस्थो हृदन्तर्ज्योतिरिति लक्षणया हृदयस्थबु- द्धावन्तर्वर्तमानं ज्योतिरात्मा । आत्मनैवायं ज्योतिषेत्युपक्रमात् पुरुषः पूर्णः स हृदन्तर्ज्योतीरूप आत्मा समानः सन् प्रकृतत्वात् सन्निहितत्वा