अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 870, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७७ तस्योभयधर्मा अप्युच्यन्ते क्रियामात्रस्य तन्मूलत्वाय । तत्र हि चत्वारि भाष्यप्रकाशः । कत्वात् । तस्य चान्तर्यामितया सर्वेष्वेव प्राणेष्ववस्थानात् । हृदयमिति श्रुतेर्हृद्यप्यवस्थानात् । एवं च हृदीत्यत्र लक्षणापि न स्यात् । परं त्वेतेषां पदानां कथंचिज्जीवेऽपि वृत्तेस्तस्य निरा- करणाय स समानः सन्नित्यादि वदतीत्येव युक्तम् । श्लेषेण परोक्षवादस्तु, स मेने न वदिष्य इति प्राथमिकामिसंधानाद् भगवतः परोक्षप्रियत्वज्ञानाच्च । तस्मादुक्त एवार्थ इति निश्चयः । ननु यद्यत्र ब्रह्म प्रतिपाद्यं स्यात् तदा ब्रह्मधर्मा एवात्र उक्ताः स्युर्न जीवधर्मा इत्यत आहुः तस्यो- भयेत्यादि । जीवमुख्यप्राणलिङ्गसूत्रे ब्रह्माभितत्वेन हेतुना जीवधर्माणां ब्रह्ममूलकत्वस्य साधितत्वात् तद्वदत्रापि जीवक्रियाणां तन्मूलत्वं बोधयितुं तद्धर्मा उच्यन्ते । भगवद्धर्माश्चोच्यन्त इति तस्यैवोभये धर्मा इति न ब्रह्मप्रतिपादकत्वक्षतिरित्यर्थः । एवं ब्रह्मधर्मकथनव्युत्पादनेन प्रकरणस्य ब्राह्मत्वं प्रतिपाद्य क्रीडां व्युत्पादयितुममौ लोकावित्यादेरर्थमाहुः तत्रेत्यादि । तत्र रश्मिः । नामनुग्राहकत्वेन । एवकारेणोपाधिव्यवच्छेदः संचरतीत्यन्तस्य क्रीडतीत्यन्तं विवरणं जीवप्रधानेकार्य- त्वाद्भवति तद्वेदान्तेऽसंगतं शारीरब्राह्मणसाम्राज्यपरत्वादत आहुः श्लेषेणेति । श्लेषस्तु वाक्यशेष- व्यञ्जनामाष्यादिभिरनेकार्थप्रयोगः । यथा 'स्वर्गकामो यजेत' इत्यत्र वाक्यशेषबलादाम्रसुखं प्रसिद्धेर्लोक उच्यते यथा वा मद्गात्मनो दुरधिरोहतनोरित्यत्रामिधाव्यञ्जनाभ्यां राजगजयोर्बोधः यथा च हरिरित्युक्ते विष्णुचन्द्रयोर्बोधस्तथात्र भाष्यादनेकार्थस्वरूपः श्लेषस्तेन परोक्षस्य ब्रह्मणो वाद इत्यर्थः । स मेन इति स याज्ञवल्क्यो न वदिष्य इति मेने । अत्र पदयोजनान्तरेणानेकार्थरूपः श्लेषः । अनेन राज्ञा सहाहं वदिष्ये स च राजा मे याज्ञवल्क्यं वदिष्यते इति पुरुषव्यत्ययेनान्वयात् । प्राथमिकोऽर्थः । ननु प्राथमिकैर्यैस्तु अत्र किमागतं तत्राहुः भगवत इति । याज्ञवल्क्यस्य भगवतः परोक्षेत्यादि । उक्त इति व्यवस्थया जीवब्रह्मपररूपः । ननु परोक्षवादोऽन्यत्र निगमयितार इत्यस्य निगन्तव्य इति अति परोक्षवादो निघण्टव इति षड् दूतेऽसन्तं षडूहृोतेत्याचक्षते परोक्षेणेति इन्ध इत्यसेन्द्र इति परोक्षवादोऽत्र त्वनैवमिति चेन्न परोक्षवादस्य सत्त्वात् व्युत्पत्तेः सत्त्वात् अपरोक्षं ब्रह्म तु उपसद्ब्राह्मणे । कहोलब्राह्मणे च योऽशनाया पिपासा शोकं मोहं जरामृत्युमत्येतीति श्रुतेऽसुषु- प्तिसामयिकमाधिभौतिकं प्रसिद्धत्वात् यः प्राणेन प्राणितीत्यादिनोक्तव्यानरहितचतुर्णामाश्रयत्वमा- ध्यात्मिकं 'प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्' इति गीता । तेन 'दृष्टेः द्रष्टारं पश्येर्न श्रुतेः श्रोतारं ५शृणुयान्न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीयात्' इति श्रुतेः द्रष्टृत्वादय उक्तास्तत्त्वमाधिदैविकम् । यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्वेति साधारणश्रुतेः । आध्यात्मिकाधिभौतिकयोस्तु यत्साक्षादपरोक्षाद् ब्रह्मेत्यसाधारणश्रुतेः । टीकायां तु षड्डुःखेन पृष्टं तदेवाहं कहोऴः पृच्छामीत्येवमेवकारव्याख्या । अत्र ब्राह्मणद्वयस्यः काण्वादि- पाठभेदात् । जीवमुख्येति इदं सूत्रं प्रथमचरणेऽस्ति । तस्यैवेति ब्रह्मणः । तस्येति भाष्यपदमपि व्याकृतम् । क्रियामिति क्रियामात्रस्य तन्मूलत्वायति भाष्योक्ताम् । भास्ते पत्ययते कर्म कुरुते विपर्येतीति श्रुतेश्चतुर्धा । यत्तु उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणीत्युक्त्या यद्यपि सर्वेषां कर्मणां १. दृषदूतस्सन्तं दूतहोत्रेत्याचक्षते । 777