अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 871, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Unicode Devanagari Markdown:
७७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १३ सू० ४३ स्थानानि । अयं लोकः परलोकः स्वप्न इति त्रयं जीवसमानतया अनुभवति । तत्र स्वप्नस्य मिथ्यात्वाद् द्वयमेव । सुषुप्तं च चतुर्थम् । जीवस्य तु मोक्षोऽपि । तत्रास्मिँल्लोके जीवस्यानीशित्वं प्रत्यक्षसिद्धम् । मोक्षे त्वैक्यम् । स्वप्नस्तु भाष्यप्रकाशः । भगवत्क्रीडायामेतल्लोकपरलोकसंध्यसंप्रसादाख्यानि चत्वारि स्थानानि । तेष्वेतल्लोकादित्रयं जीवसमानतयाऽनुभवति । समानः सन्नुभौ लोकौ संचरतीति श्रावणात् । न च त्रयाणां सत्त्वे कथं द्वयोर्निर्देश इति शङ्क्यम् । तत्र तेषु स्थानेषु, स्वप्नस्य मिथ्यात्वात् सत्यं द्वयमेवेत्य- भिप्रायेणोभयनिर्देशात् । सुषुप्तं च चतुर्थम् । स एष तस्मिन् संप्रसादे रत्वा चरित्वेति वक्ष्य- माणाल्लिङ्गात् । जीवस्य तु मोक्षोऽपि पञ्चम इति शेषः । एषोऽस्य परमो लोक इति वक्ष्यमाण- त्वात् । तत्र समानताया भेदतद्भावात् तं सर्वत्र वक्तुं विशेषमाहुः तत्रास्मिन्नित्यादि । तत्राद्येऽ- नीशत्वाद् भेदः प्रत्यक्षसिद्धोऽतो नोक्तः । मोक्षे त्वैक्यमविभागे सत्यमेवप्रतीतिविषयत्व- रश्मिः । गमनेऽन्तर्भावः कर्तुं शक्यते तथापि स्वतन्त्रेच्छमुनेः पर्यनुयोगानर्हत्वात् पञ्च कर्माणीति. मतं तेन पत्ययनेऽन्येषामन्तर्भाव इति वचस्तत्र आस्ते इत्यादिप्रयोगस्थले पत्ययते इति प्रयोगापत्तेः । न च संयोगानुकूलव्यापारस्य चतुर्षु सत्त्वादिशपत्तिरिति वाच्यम् । पृथगर्थधातूनां प्रयोगात् वैयाकरणमतेऽन्येषामपि धात्वर्थानां सत्त्वात् । सर्वो हि पूर्वमास्ते पश्चादिच्छति आगच्छति च अवान्तरक्रियाणां तिसृष्वन्तर्भावो निरुक्त उपपादितः यथा यच्च व्रजितं व्रजिष्यमाणं च यच्च मध्ये स्थितं शयितं भुक्तं तत्सर्वमेकीकृत्य वक्तारो भवन्ति व्रजति देवदत्त इति एवमास्ते इत्यादौ बोध्यम् । एवं प्रपञ्चे प्रपञ्चनिर्माणसमये स्वप्राप्त्यर्थं भक्तिमार्गनिरमासीत्तत्र क्रियामाह श्रुतिः कर्म कुरुते इति अतो भाष्ये क्रियामात्रस्येति मात्रपदम् । तन्मूलत्वायेति आत्ममूलत्वाय । अयमर्थः । 'अत एव च नित्यत्वम्' इति सूत्रे वेदस्य ब्रह्मतुल्यत्वमुक्तम् । तदर्थ धर्मरूपक्रियायाः ब्रह्मतुल्यत्वं तेनैव ज्ञातव्यम् । 'औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः' इति जैमिनिसूत्रात् । 'धर्मो यस्यां मदात्मकः' इति भगवद्वाक्याच्च । 'कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते' ॥ इत्यादिभिः साधनप्रकरणे एकविंशाध्याये कर्महेतुकवादे निष्ठात्त्वाजनायोक्तम् । हेतुकाना माहत्म्य 'हेतुवादेव ह्यङ्गे ब्रह्मवादो न वाम्यकः' इति ब्रह्मवादो न वाम्य इति । अतः क्रियापि चतुष्पदा ब्रह्मतुल्यत्वात् । ते चत्वारः पादाः आस्ते इलाद्युक्ताः तेष्ववान्तरक्रियासन्निवेशो ब्रह्मपादेषु विश्वादिषु तत्तत्पदार्थसंनिवेशवत् । अत एव पञ्चरात्रे क्रियाज्ञानमित्युक्तम् 'आसीज्ज्ञानमयो ह्यर्थ एकमेवाविकल्पितम्' इति । उभाविति स समानः सन्नुभौ लोकौ संचरतीत्यत्र । श्रावणादिति 'द्वा सुपर्णा सयुजा सखाया समाने वृक्षे परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योभिचाकशीति' इत्यत्र सुपर्णेत्यादिना जीवे ब्रह्मानुकरणम् । 'ततो ह जातो भुवनस्य गोपा हिरण्मयः शकुनिर्ब्रह्मनाम' इत्यत्र सुपर्णत्वात् । एतैर्धर्मैः समानः । तत्र स्वप्नस्येति भाष्यमवतारयन्ति स्म न चेति । द्वयोर्लो- कयोः । स्वप्नस्येति स्वपिति स्वप्नः स्वप्नो नन् इति सूत्रेण नन् निष्पन्नू श्यै ङ्गीङ् स्वप्ने स्वप्नं सुप्तस्य विज्ञानं करोति इति स्वप्नः विज्ञानस्य फलविषयत्वेन विज्ञानसाधनमायिकविषयं करोति उपादानतयेति । स्वप्नस्तु मायेति भाष्येण वक्ष्यते तस्य । सुषुप्तं चेति भाष्यम् । लिङ्गादिति संप्रसाद इत्यस्य 778