अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 872, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७७९ माया । अतःपरं द्वयमवशिष्यते । तत्र श्रुत्यैव भेदः प्रतिपादितः । तत्र भगवतो जीवसाम्ये अन्तःकरणेन्द्रियधर्माः प्राप्नुवन्तीति तस्यानुकर- णमाह ध्यायतीव लेलायतीवेति । बुद्धिसहितः स्वयमेव स्वप्नो भूत्वा जागरणा- भाष्यप्रकाशः। लक्षणमत्र, 'ब्रह्मैव सन् ब्रह्माप्येति' इति श्रुत्यैव वक्ष्यतेऽत्रापि नोक्तः । स्वप्नस्तु माया । अत्रात्रापि नोक्तः । अतःपरं द्वयमवशिष्यते । सुषुप्तिः परलोकश्च । तत्र भेदः श्रुत्यैव । अयं शारीर आत्मा प्राज्ञेनात्मना संपरिष्वक्त इति । अयं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ इत्यनेन प्रतिपादितः । तथा च मोक्षव्यतिरिक्तेषु सत्येषु सर्वेषु स्थानेषु भेदस्य सिद्धत्वात् तस्यैव जीवे ब्रह्मतानिरासकतया विवक्षितार्थनियामकत्वमित्यभिप्रेत्याचार्यैः सुषुप्त्युत्क्रान्त्योरित्याहेत्यर्थः । एवं विशेषं बोधयित्वा इह लोके क्रीडाप्रकारमाहुः तत्रेत्यादि । तथा चेह लोकेऽनुकरणेन क्रीडेत्यर्थः । इदं चावतारदशायामपि पुराणेषु तत्र सिद्धम् । चेरतुः प्राकृतौ यथेत्यादौ च । स्वप्ने क्रीडाप्रकारमाहुः बुद्धीत्यादि । अयं च, सधीः स्वप्नो भूत्वेत्यादेरर्थः । तथा च तत्र रश्मिः। लिङ्गात् संप्रसादः सुषुप्तिः । जीवस्येति तु भाष्यम् । एष मोक्षोऽस जीवस्य । सर्वत्र इति चवस्थासु । भेदाभेदवादसत्कृतस्य सत्त्वात् भाष्याभिप्रायमाहुः तत्राप्य इति । अत्रेति मोक्षे । 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतात्रयोदशाध्याये ब्रह्मनिरूपणे । तत्रापीति मोक्षेपि भेदो नोक्तः । स्वप्न इति । इदमपि भाष्यम् । अतः परमिति भाष्यं द्वयमेतच्छङ्काकुर्वन्ति स्म सुषुप्तिरिति । तत्र श्रुत्येति भाष्यं विवृण्वन्ति स्म तत्र भेद इति । विवक्षितेति । जीवभेदेन ब्रह्मरूपार्थ- नियामकत्वम् । अत्रोत्क्रान्तिः परलोको व्याकृतः । विशेषमिति जीवाद्भेदलक्षणं विशेषम् । अनुकरणेनेति । ननु जीवो ब्रह्मानुकरोति न तु ब्रह्म जीवमिति चेन्न । नात्रानुकूलधिकरणानुसारि भाष्यं किं तु 'जीवमुख्यप्राणलिङ्गात्' इति सूत्रानुसारि तत्र प्रथमवर्णके जीवधर्माणां जीवद्वारा भगवद्वृत्तिकतैव अन्तःकरणेन्द्रियधर्माणामनुकरणेनेत्यर्थात् 'सर्वैन्द्रियगुणाभासं सर्वैन्द्रियविवर्जितम्' इति गीतान्न । पुराणेष्विति श्रीभागवतब्रह्मवैवर्तपद्मविष्णुपुराणेषु तत्र श्रीभागवते एकादशाध्याये दशमस्कन्धे । 'तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ तौ वत्सांश्चारयन्तौ विचेरतुः' ॥ इति वत्सपालकत्वादि जीवानुकरणम् । तत्र पुराणान्तरे श्रीरघुनाथजितः पुरुषोत्तमसहस्रनाम- टीकायाम् । 'सूर्यकोटिसमप्रभः । सुधाकोटिलास्यहेतुः कामधुक् कोटिकामदः । समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः । सुमेरुकोटिनिष्कम्पः' । इति । एवमन्यत्र । चेरतुरिति इदं दशमस्यैकादशाध्यायेस्ति । आदिपदेन । 'चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः । अनुरौति स्म सत्त्वानां भीतवद्द्व्याघ्रसिंहयोः' ॥ इत्यस्य दशमद्वादशोकस्य संग्रहः । तथा चेश्वरो ध्यायतीव लेलायतीव । अयमिति सधीः द्वे भूत्वेमं लोकमतिक्रामतीति श्रुतिः स ईश्वरः धिया सह स्वप्नः सुप्तविज्ञानं भूत्वा विश्वस्त्व माया 779