भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 873, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 873

नुसंधानं न करोति । एवं जाग्रत्स्वापौ ब्रह्मणो लोकद्वयं जीवस्य स्थानत्रयमाह स वा अयमिति कण्डिकाद्वयेन । स इति पूर्वप्रक्रान्तो जीवः । जीवस्य शरीरेन्द्रि-

भाष्यप्रकाशः। मायारूपेण जागरणानानुसंधानरूपा जीववत् क्रीडेत्यर्थः । एवमुभयत्र भगवत्क्रीडामुक्त्वा, स वा अयं पुरुष इति, तस्य वा एतस्य पुरुषस्येति कण्डिकाद्वयस्यार्थमाहुः जीवस्येत्यादि । पूर्वप्रक्रान्त इति । किंज्योतिरयं पुरुष इति प्रश्ने प्रक्रान्तो न तु, स समान इत्यत्रोक्तः । अयमितीदमा प्रत्यभिज्ञानात् । कण्डिकाद्वयसिद्धमर्थमाहुः जीवस्येत्यादि । दुःखदातृत्वं च पाप्मपदान्ज्ञेयम् । तथा चैतद्बोधनेनानीश्वरत्वज्ञापनाथमेतत्कण्डिकाद्वयकथनमित्यर्थः । अत्र

रश्मिः। 'न तत्र रथा न रथयोगा न पन्थानः' इति श्रुतेः 'संध्ये सृष्टिराह हि' इत्यत्र वक्ष्यन्ति । इमं लोक- मिन्द्रियैर्विषयग्रहणं जाग्रदवस्थारूपमतिक्रामति तस्यानुसंधानं न करोति स्वतन्त्रत्वात् । अत्र सूत्रस्थ विज्ञानं धीः 'बुद्धिर्विज्ञानरूपिणी' इति वाक्यात् । तत्राप्य । भुङ् प्रासौ भ्वा. आ. से. इडभाव- श्छान्दसः । अनिद्धात्वात्सर्व नास्य प्रयोगः इति चेद्भूसत्तायामित्यस्यैवास्तु । विज्ञानस्य सत्तां कृत्वा इत्यर्थः । एतदाशयेनाहुः तथा चेति । जागरणस्याननुसंधानं यत्र स्वप्ने एतदुक्तिस्तु स्वप्नस्यैतन्मिथ्या- त्वाद्भगवांस्तत्र पश्यतीति अक्रीडासाधनमिति जीवद्वारा पश्यतीति जीववत् क्रीडेत्यर्थः । स्वप्नसृष्टेः मायोपादानकारणं ईश्वरः कर्तेति 'ऐन्द्रजालिकपक्षेपि तत्कर्तृत्वं नटे यथा' इति निबन्धात् । एवमिति भाष्यार्थमुपनिबन्धुः एवमिति । उभयत्रेति जाग्रत्स्वप्नयोः । स्वापः शयनं स्वप्न इति यावत् । अज्ञानपात्रकरूपयोर् व्यज्यते स्वप्नस्थाने स्वापपददानेन भाष्ये 'स्वापः स्पर्शाज्ञतानिद्राशयनाज्ञानपात्रकः' इति विश्वात् । लोकद्वयमिति भाष्ये जाग्रद्दर्शनं लोकृ दर्शने इति धातुपाठात् स्वापस्तु लोको मायारूपमासात् । लोकृ भासेऽर्थविशेषे चेति । स वा अयमिति । स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः पाप्मभिः संसृज्यते स उत्क्रामन् म्रियमाणः पाप्मनो विजहातीति । तस्य वा इति । तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं संध्यं तृतीयं स्वप्नस्थानं तस्मिन् संध्ये स्थाने तिष्ठन्नुभे स्थाने पश्यतीदं च परलोकस्थानं चेति । जीवस्येत्यादीति । भाष्ये । ष्ठीयतेऽस्मिन् इति स्थानम् । प्रक्रान्त इति । योऽयं विज्ञानमयः प्राणेषु इति प्रक्रान्तः । अयमिति । स वा अयमित्यत्रायमित्यादिः । न च स समान इत्यस्य प्रत्यभिज्ञानमिति शङ्क्यम् । तस्य ब्रह्ममात्रवाक्यत्वात् । पाप्मेति पाप्मपदाज्ज्ञेयमिति स्मार्तः प्रयोगः तेन 'स्तोः श्चुना श्चुः' इत्यस्य न प्राप्तिः 'झलां जशोन्ते' इत्यस्य सपादसप्ताध्यायीस्थत्वेन त्रिपादीस्थस्य स्तोः श्चुना श्चुरित्यस्याप्राप्तेः 'झलां जश् झशि' इत्यस्य त्रिपाद्यामपि स्तोः श्चुना श्चुः इत्यस्मात् परत्वेन तत्प्रति तस्यासिद्धत्वात् । तेन पाप्मपदान्ज्ञेयमित्यत्र स्तोः श्चुना श्चुरिति प्रापयित्वा झलां जश् झशीति प्रापणीयम् । इति तयोस्त्रि- पादीस्थत्वेन 'झलां जशोन्ते' इति सूत्रं प्रससिद्ध्यत्वात् । एतस्य त्रिपादीस्थत्वे पूर्वत्वात् । त्रिपाद्यामपि पूर्वं प्रति परस्याऽप्रसिद्धत्वात् । अनीशेति तत्रास्मिन् लोके जीवस्यानीशित्वं प्रत्यक्षसिद्धमिति भाष्यात् । भाष्ये पूर्वप्रक्रान्त इति पाठे वर्गीगमः । अभिव्याप्यत्वेन वेदुत्पद्यत्वात् । दुःखदातृत्वं तु पाप्मभिः 'पाप्मभिः संसृज्यते' इति श्रुतेरिति पाप्मपदाज्ज्ञेयमित्यनेन भाष्यप्रकाशेनोक्तम् । तत्र दुःखदातृत्वं कर्माद्युरोध्यात्मनः इति ज्ञेयम् । पाप्मानस्तु कर्माद्युरोध्याल्पेच्छया ब्रह्मात्मके जगति सुखरूपी ईर्षाद्यसूक्तस्तदतिरिक्ताः तैर्दीर्घैः नश्मीकृते पित्रे दुर्व्ह दुःखदात इति व्यति