भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 874, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 874

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७८१ याणां दुःखदातृत्वमेव । अयेति भगवच्चरित्रम् । स तु स्वस्थानन्दं जीवस्य दुःखं च पश्यति । भेदोऽप्यशब्दात् । जीवस्यानीशित्वात् येन प्रकारेणायं जीवः परलोके गच्छति तमुपायं भगवानेव करोति । भाष्यप्रकाशः । यथाक्रममित्यादेरर्थमाहुः अयेतीत्यादि । चरित्रस्य स्वरूपमाहुः स त्वित्यादि । तदुक्तम्, अथ यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति स इत्यन्तेन । श्रुत्यर्थस्तु, अयेति भिन्नप्रक्रमे । यथाक्रमः । आक्रमत्यनेनेत्याक्रम आश्रयोऽदृ- ष्टम्भो विद्याकर्मपूर्वप्रज्ञालक्षणो यादृश आक्रमो यस्यासौ यथाक्रमः । अयं जीवः परलोकस्थाने भवति । परलोकस्थाने प्राप्तव्ये सति यादृशविद्याकर्मपूर्वप्रज्ञायुक्तो भवति तमाक्रमं विद्यादि