अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 875, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाशः । भवप्रकारं वक्ष्यंस्तद्धेतुभूतं भगवत्स्वापप्रकारमाह । अस्य जाग्रदवस्थायामनुभूयमानस्य लोकस्य, सर्वावतः सर्वपदार्थयुक्तस्य, मात्रां वासनात्मकंमंशमुपादाय गृहीत्वा स्वयं भगवान् विहृत्य वासनाग्रहणे ज्ञानस्य स्थूलरूपतिरोभावाज्जाग्रद्देहं निःसंबोधं कृत्वा स्वयं निर्माय वक्ष्यमाणप्रकारेण नानापदार्थनिर्माणं कृत्वा, तत्र करणं स्वेन भासा स्वधर्मात्मकेन ज्ञानेनेति स्वेन ज्योतिषा प्रस्वपिति, अलुप्तदृक्स्वभावेन स्वरूपेण, 'स सर्वधीवृत्त्यनुभूतसर्वः' इत्यत्र स्वमजनेषितेकपद्- व्याख्यानव्युत्पादितया रीत्या सर्वं स्वाप्निकं विषयीकुर्वन् प्रस्वपितीति प्रकार उक्तः । अतःपरं जीवस्य तत्रकारमाह अत्रायमित्यादि । अत्रास्मिन् भगवत्स्वापे, अयं पुरुषो जीवः स्वयंज्यो- तिर्भवति । भगवज्ज्योतिषा स्वप्नमनुभवन्नात्मज्योतिर्भवतीत्यर्थः । ननु दृश्यानां बहिः