भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 877, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 877

अथो खल्विति भगवतो न जागरितस्वप्नभेदोऽस्तीति पक्षः। परं स्वयंज्यो- तिष्ट्वं तत्र स्पष्टम्। एतावद्दूरे भगवच्चरित्रमङ्गीकृत्य जीवविमोक्षार्थं प्रश्नः। स वा एष इति जीववाक्यम्। तस्य सहजः सङ्गो नास्तीति स्वप्नसङ्गाभावं भाष्यप्रकाशः। ज्ञेया। एवं भगवतः स्वप्नमङ्गीकृत्य स्वयंज्योतिष्ट्वं साधितम्। अतःपरं भगवतः स्वप्नमनङ्गीकृत्य तथात्वं साधयतीत्याहुः अथो इत्यादि। तथा च मतान्तरतयोल्लेखादयमन्यः पक्ष इत्यर्थः। श्रुत्य- र्थस्तु। अथो इति भिन्नप्रक्रमे। खल्वाहुः। अर्थादन्ये। किमेष पूर्वोक्तोऽस्य भगवतो जागरितदेश एव। हि यतो हेतोः। यान्येव पदार्थजातानि जाग्रत् पश्यति तान्येव सुप्तः पश्यतीति। तदुक्तं श्रीभागवतेऽपि, 'लोकानपीतान् ददृशे स्वदेहे' इति। तथा च यत्रापीतानामपि दर्शनं, तत्र स्थितानां दर्शने कः संदेह इति भगवतो न जागरितस्वप्नभेद इति प्रलय इवात्रापि स्वयंज्यो- तिष्ट्वमिति तदाशयः। एतस्य मतान्तरत्वे हेतुमाहुः परमित्यादि। तत्रेति। व्याख्याते पक्षे पूर्वमादित्यादीनां कथनाज्जागरिते स्वयंज्योतिष्ट्वस्यास्पष्टत्वादत्राप्यनुपयोगित्वम्। परप्रतिपत्त्य- भावादतः पूर्वोक्त एव पक्षो युक्त इति तदाशय इत्यर्थः। एतच्छ्रवणोत्तरम्, एवमेवैतद् याज्ञ- वल्क्येति जनकेनाङ्गीकारात् प्रभोत्तरपूर्विर्जातेति सिद्धम्। अतःपरं यो मोक्षप्रश्नः, अत ऊर्ध्वं विमोक्षायैव ब्रूहीति स कुत इत्यपेक्षायामाहुः एतावदित्यादि। स समानः सन्नित्यारभ्य स्वप्नप- र्यन्तं भगवच्चरित्रं बन्धकमङ्गीकृत्य मोक्षस्तर्हि कथमित्याशयेन तत्प्रश्न इत्यर्थः। तर्हि मोक्षसाधनं तत्र वाच्यम्। जीवावस्थादिकथनस्य कः प्रसङ्ग इत्यत आहुः स वा एष इत्यादि। जीववाक्ये- रश्मिः। आयतं शृङ्खलार्थमित्यन्ये। भगवत इति स्वप्नस्तु मायेति भाष्यात्। मायामायाविनोराधा- राधेयभावः। तथात्वमिति स्वयंज्योतिष्ट्वं तु अम्। अन्य इति तेन पूर्वोक्तपक्षे बीजमप्युक्तम्। मतान्तरत्वाय श्रुत्यर्थमाहुः श्रुत्यर्थ इति। श्रुतिस्तु अथो खल्वाहुः जागरितदेश एवास्येष इति यान्येव जाग्रत्पश्यति तानि सुप्त इत्यत्र अयं पुरुषः स्वयंज्योतिर्भवति। इत्येवमेवैतद्याज्ञवल्क्य सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीति। श्रीभागवत इति तृतीयस्कन्धे। अपीतान् अपि इतान् अपीता लोकाः स्वप्ने स्थिता जाग्रति। अत्रापि स्वप्नेऽपि। प्रलये विभाभावः। स्वप्नेऽपि मायेति। तदाशयो याज्ञवल्क्याशयः। अग्रेति जाग्रत्स्वप्नभेदाभावपक्षे। अस्पेति। स्वयं ज्योतिष्ट्वस्य जाग्रद्दृष्टीनां स्वप्नेऽपि दर्शनेन विघटनत्वात्सानुपयोगित्वम्। जाग्रता चारिताभ्याम्। परप्रतिपत्त्यभावात्। स्वप्न एव स्वयंज्योतिष्ट्वस्य परप्रतिपत्तिरस्ति। तदादित्यादेरभावादिन्द्रियाणां गोलकाभावेन प्रदर्शनासार्मर्थ्यात्। गोलकस्य च स्वाप्नस्य मिथ्यात्वात् भगवानेव पश्यतीत्युक्त्या- व्यवसीयत इति। अतः कारणात् परमनुत्कृष्टं, स्वयंज्योतिष्ट्वं तत्र जाग्रत्स्वप्नभेदपक्षे स्पष्टम्। तत्र स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीत्याधिक्यात् पूर्वोक्त एव पक्षो युक्त इति। तदाशय इति अत्रायं स्वयंज्योतिर्भवतीति श्रुतेर्याज्ञवल्क्यस्य चाशयः। बन्धकमिति बन्धिका ज्ञेया इति अत एव च नित्यत्वमिति सूत्रभाष्यस्वारस्यात्। जीवेति आदिपदेनासङ्गत्वम्। जीवेति। भाष्ये। स वा एष इति जीववाक्यम्। एतस्याग्रे तेनेति शेषं पूरयित्वा हेत्वनेनान्वयः कर्तव्य इति भावः। स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव स यदत्र किंचित्पश्यति अनन्वागतः तेन भवत्यसंगो ह्ययं पुरुष इत्येवमेवैतद्