अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 878, कुल 2600 में से
संदर्भ में पढ़ेंप्रत्यक्षतः प्रदर्श्यासङ्गत्वमाह । तावतापि जागरणावस्थायामसासङ्गत्वज्ञानाय पुनः प्रश्नः । तत्र मत्स्यदृष्टान्तोऽवस्थाभेदज्ञानाय क्रियाज्ञानप्रधानः । भाष्यप्रकाशः । माहेत्यर्थः । श्रुत्यर्थस्तु, स वा एष जीव एतस्मिन् स्वप्नान्ते स्वप्नदेशे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतिलोम्येन नितरामयो गमनं यथा स्यात् तथा, प्रतियोनि योनि मिश्रीभवतीति योनिर्जागरितादिस्थानं तल्लक्षीकृत्य आद्रवत्यागच्छति बुद्धान्ताय जागरणाथैव । एवं जीवस्य क्रियां बोधयित्वा तस्यासङ्गत्वं व्युत्पादयति । स यदत्र किञ्चित् पश्यत्यनन्वागतः । अत्रुलक्षीकृत्याऽऽगतोऽन्वागतस्तद्भिन्नोऽनन्वागतः साक्षिभूत उदासीनः सन् पश्यतीत्यनुभव- सिद्धम् । तत्रत्यसुखदुःखेषु तत्साधने चानासक्तेरनुभवसिद्धत्वात् । तेन साक्षित्वेन हेतुना भवत्य- सङ्गोऽ