अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 881, कुल 2600 में से
संदर्भ में पढ़ें७८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ११ सू० ४२ भगवद्रूपः परमो लोकः । सुषुप्तिस्त्वकामरूपो भगवान् । अत्र ज्ञानाभावानुभयोः स्पष्टतया भेदनिर्देशः । शारीरः प्राज्ञ इति । भाष्यप्रकाशः । रूपलिङ्गप्रत्यभिज्ञानाच्च सुषुप्तिः सुष्ठु सुप्तिर्यत्रेति तत्स्थानं भगवान् । तेन तत्संबन्धादस्यापि सुषुप्तिरित्यर्थः । तत्र जीवेश्वरयोर्निर्देशस्य तात्पर्यमाहुः अत्रेत्यादि । तद्वा अस्यैतदात्मकाममिति श्रुतौ तद् अन्ताय धावदेतद् उच्यमानमस्य जीवस्य आत्मकामरूपमकाममाप्तकाममित्युक्तम् । अत उभयोः साधर्म्ये भेदज्ञानाभावात् तज्ज्ञानार्थं स्त्रीदृष्टान्तपरिष्वङ्गक्रियातृतीयाविभक्तिभिर्भेद- निर्देशः कृत इत्यर्थः । बाह्याभ्यन्तरज्ञानाभावस्तु परिष्वङ्गहेतुक इति श्रुतावेव स्फुटम् । तथा च यद्यवस्थात्रययुक्तं जीवस्वरूपमेतन्महावाक्ये वि