भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 882, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 882

भाष्यप्रकाशः । विभाव्यते, तदापि लक्षणादोषो दृष्टान्तविरोधश्च दुर्द्धरः । तस्माद्भेदं जीवब्रह्मताप्रतिपादकं वाक्य- मिति हृदयम् । रश्मिः । उत्सर्जद्यातीति शारीराद्भेदेन परमात्मानं प्राज्ञशब्देन व्यपदिशति 'अन्वारूढः' अधिष्ठितः 'उत्सर्जन्' वेदनातः शब्दं कुर्वन् इति ब्रह्मामृतवर्षिण्याम् । अवस्थात्रयेण मुक्तं तथा च शंकरभाष्यं यदुक्तमाद्यन्त- मध्येषु शारीरलिङ्गात्तत्परत्वमस्य वाक्यस्येत्यत्र ब्रूमः उपक्रमे तावद्योयं विज्ञानमयः प्राणेष्विति न संसारिरूपं विवक्षितं किं तर्हि अनुद्य संसारिरूपं परेणास्यैकतां विवक्षति । अतो ध्यायतीव लेलायतीवैवमेवापोत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिवृत्तिपरा लक्ष्यते तथा चोपसंहारेपि यथोपक्रममेवोप- संहरति स वा एष महानज आत्मा योयं विज्ञानमयः प्राणेष्विति । योयं विज्ञानमयः प्राण