अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 886, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७२३
भाष्यप्रकाशः ।
यद्वै तदित्यादि । वै एवकारार्थः । यद् वै यदेव तद् पूर्वोक्तं पित्रादिकं न पश्यति, सुषुप्तौ भगवत्स्वरूपं प्राप्तो न चक्षुर्विषयीकरोति तत् द्रष्टव्यं पूर्वोक्तं पश्यंश्चक्षुर्गोचरीकुर्वन्नेव न पश्यति । एवमुभयं प्रतिज्ञाय पूर्वं दर्शनमुपपादयति । हि यतो हेतोर्द्रष्टुर्जीवस्य दृष्टेस्तद्धर्मरूपस्य ज्ञानस्य विपरिलोपो दर्शनसाधनतद्विषययोस्तत्राभावेन विरोधात् सर्वात्मनादर्शनं तन्न विद्यते । कुतः । अविनाशित्वात् । प्रकाशकस्यात्मज्योतिषः, 'सर्वे जीवाः सर्वमयाः' इति श्रुत्यन्तरात् सर्वप्रचुरस्य जीवस्वरूपस्य च नित्यत्वात् । तर्हिदर्शनं कुत इत्यतस्तदुपपादयति । तुः शङ्कानिरासे । यत् पश्येदत्र यत्पदेन करणस्य विषयस्य च संग्रहः । तद् द्वितीयं करणं विषयश्च ततोऽन्यद् विभक्तं नास्ति । तथाच बाह्यस्य विषयस्य विभक्तस्य करणस्य चाभावात् । तद्धर्मरूपस्य दर्शनस्याभाव इत्यर्थः । एवमग्रेऽपि सर्वत्र एवमत्र बाह्येन्द्रियधर्मानामभावः प्रतिपादितः । अतः परमन्यत्व- विभक्तत्वयोरभाव एव कथमित्यतस्तदुपपादयति सलिल इत्यादि । एको मुख्यो द्रष्टा भगवानेव
रश्मिः ।
सुषुप्तौ जीवस्य पिताऽपितेत्यादि भवतीत्यस्मिन् पक्षेऽर्थः । सुषुप्तावनुभवात्कार्किचित्करत्वात्कथमिति प्रश्नः । वा इति । 'यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति' इति श्रुतिः । उपेति 'न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽ- विनाषित्वात्' इति श्रुतिमुपपादयति । तद्धर्मेति । चक्षुर्विषयनित्यज्ञानेषु चैतन्यरूपस्य । तन्नेति सुषुप्तौ । विरोधादिति ज्ञानस्य चैतन्यस्याकामेन भगवता सहानवस्थानलक्षणविरोधात् । भगवतोऽज्ञाना- विषयत्वात् । तर्हि विषयाभावात् सर्वथा ज्ञानाभावेनास्तित्वं ज्ञानस्य स्यात्तन्नाहुः सर्वात्मनेति सर्वथा । यस्मिन्नदृष्टे कोपि पुरुषार्थो न सिद्धयति तत्सर्वात्मनाऽदर्शनम् । आत्मति जीवचैतन्यस्य । सर्वमेति सर्वविकार इति द्व्यचश्छन्दसीति सूत्रेणार्थो भवति तथापि जीवस्याविकृतत्वान् न संभवति जाग्रजीवाय तदात्मना सुषुप्तस्य दर्शनेऽङ्गीकृते सुषुप्तिकालेऽदर्शनं कुत इति पृच्छति तर्हीति । उपेति न तु तद् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येदिति श्रुतिमुपपादयति । तद्धर्मेति जीवधर्मरूपस्य । अभावस्तिरोभावः अतो नानित्यत्वम् । सर्वत्रेति । यद्वै तन्न जिघ्रति जिघ्रन् वै तद् घ्रातव्यं न जिघ्रति न तु घ्रातेर्घ्राणाद्विपरिलोपो विद्यतेऽविनाशित्वाच्च तु तद् द्वितीयमस्ति ततोऽन्य- द्विभक्तं यज्जिघ्रेदित्यत्र । एवं यद्वै तन्न रसयति रसयन् वै तद्रसं न रसयतीत्यादि । यद्वै तन्न वदति वदन् वै तद्वक्तव्यं न वदतीत्यादि । यद्वै तन्न शृणोति शृण्वन् वै तच्छ्रोतव्यं न शृणोतीत्यादि । यद्वै तन्न मनुते मन्वानो वै तन्मन्तव्यं न मनुत इत्यादि । यद्वै तन्न स्पृशति स्पृशन् वै तत्स्प्रष्टव्यं न स्पृशतीत्यादि । यद्वै तन्न विजानाति विजानन् वै तद्विज्ञेयं न विजानातीत्यादि । आसु श्रुतिषु । बाह्येति बाह्या जाग्रदनुभूताः । इन्द्रियाणि चक्षुरादीनि । धर्मा ज्ञानानि । अत्र पक्षे कुत इन्द्रियचतुष्टयपरित्याग इति प्रश्नः प्राप्नोति प्रातीतिकाकार्यपरित्यागश्च अतो बाह्येन्द्रियाणां ये धर्मास्तेषामभाव इति भाष्यार्थे चतुर्णांमान्तरेन्द्रियत्वं व्यज्यते तेन दोर्मेद्रॉङ्घ्रिपायूनां चतुर्णामणुत्वेन प्रतीतानां सत्त्वं सुषुप्तौ इन्द्रोपेन्द्रमित्रकानां चतुर्णी देवानामक़ामभगवत्सुषुप्तिसामयिकत्वम् । आनन्दभुगिति श्रुतेः आनन्दमये कस्य प्रजापतेर्देवस्योपयोगः । एवमिन्द्रोपेन्द्रमित्राणामुपयोगः यया प्रियया स्त्रिया संपरिष्वक्त इत्यादि- दृष्टान्तश्रुतेः । इन्द्रोपेन्द्रपदाभ्यां सर्वतःपाणिपादान्तमित्युक्तं रूपमपि । जीवोश्वरः तस्य निर्गुणभगव- त्प्राप्तिश्च सुषुप्तौ । श्येनसुपर्णदृष्टान्तस्तु भगवत्स्वरूपप्राप्तये इति भाष्यात् । विशेषस्तु चानधिकारात् स्वयं ज्ञातव्यं रहस्यात् । एक इति । सलिल एको द्रष्टाऽद्वैतो भवतीति श्रुतिः । सलिल इति सल