भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 891, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 891

७९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ११ सू० ४२ प्रतिपादितः फलत्वाय । एतावता उभयासङ्गः प्रतिपादितः । तस्यानुभवारूढत्वाय पुनः प्रश्नः । दर्शनादर्शनाभावापोद्घाताभ्यां सिद्धमसङ्गो भाष्यप्रकाशः। न्तबुद्धान्तसंचारणादेवाऽसङ्गत्वं सिद्धम् । तदुत्तरं श्येनसुपर्णमारभ्य यदेतावत् सुषुप्तिमाहात्म्यमुक्तं तस्य किं प्रयोजनमत आहुः एतावतेत्यादि । पुनः पुनरुभयत्र संचरणादुभयत्र समाना तस्या- सक्तिरिति स्यादतस्तन्निवृत्त्यर्थमेतावान् ग्रन्थ इत्यर्थः । तर्हि पुनर्मोक्षसाधनप्रश्नस्य किं प्रयोजन- मत आहुः तस्येत्यादि । यदि सुषुप्तेः सकाशात् तस्य भेदो न ज्ञायेत, तदेश्वराद् भेदोऽपि न ज्ञायेतेति तस्यानुभवारूढत्वाय स इत्यर्थः । उत्तरस्य तात्पर्यमाहुः दर्शनेत्यादि । तत्रापि समा- न्तवद् वाक्यम् । अ