भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 892, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 892

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७९९ कार्यं पुरुष इति । एवं जीवं सुषुप्तौ भगवन्तं च ज्ञात्वा मोक्षोपायं पृच्छति । तत्र याज्ञवल्क्यस्य भयं जातं, सुबुद्धिरियं निर्बन्धेनापि सर्वं ज्ञास्यतीति जीवब्रह्मधर्मा- भाष्यप्रकाशः । न किंचिदवेदिषमित्यज्ञानानुस्मरणम् शेषं पूर्ववाक्यसमानम् । अत्र बुद्धान्ताऽऽद्रावणकृतो यो दर्शनाभावोऽदर्शनोद्भाथ, ताभ्यां कृत्वा सुषुप्तावपि साक्षित्त्वेनैव दर्शनं सिद्धम् । अतस्ततोऽपि भिन्न इति तत्राप्यनासक्तत्वादसङ्गो ह्ययं पुरुष इति सिद्धम् । तत्स्वरूपसावत्क्षातो भिन्नत्वं, वासनासक्तत्वं च सिद्धम् । तावता तस्य मोक्षे स्वरूपयोग्यताऽनुभवारूढा जातेत्यर्थः । अग्रिम- ग्रन्थतात्पर्यमाहुः एवमित्यादि । जीवं मोक्षयोग्यत्वेन, भगवन्तं तद्दातृत्वेन च ज्ञात्वा तत्प्रश्न इत्यर्थः । उत्तरस्य तात्पर्यमाहुः तत्रेत्यादि । सर्वं ज्ञास्यतीति । कामप्रश्नव्याजेन सर्वं ज्ञानं मदीयं ग्रहीष्यतीति । आहेति । कामप्रश्नवरदानस्य भयस्य चानुरोधादुक्तरीत्या मोक्षोपायं रश्मिः । सर्वधातुभ्यो मन्निति कृञो मनिन् कर्मणि छान्दसः । पुण कर्मणि शुभे तु. प. से. पुजति इगुपधेति कः पुनः तमहैतीत्यर्हणकर्तरि यत् पुण्यम् । आनन्दोतः पुण्यदर्शनमानन्दानुभवः । अपि च पुण्ये साधुः पुण्यं तत्र साधुरिति यत् । शुभकर्मकर्तरि कार्यं साभोतीति कार्यमानन्दस्तस्य साधकः साधुरात्मा । तथा च तस्यानन्दसाधकस्य तत्फलत्वात् शुभकर्मकर्तृफलत्वात् । शुभकर्मकर्तुरानन्दसाधक आनन्दो भगवान् विवक्षितः । किं च पुनाति यः स पुण्यमानन्दः । 'प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत्' ॥ इति वाक्यात् । पूञो नुड् ह्रस्वश्चेति यत् ह्रस्वश्चेति । सुखमहमस्वाप्समित्यानन्दानुभवः । अयं घट इत्यनुभववत् पास्यस्मादात्मानमिति पापं पा रक्षणे अ. प. अ. भीत्रादित्वान्नापादाने यद्वा पिबति भक्षयति कर्तारं पा पाने भ्वा. प. अ. अज्ञानमित्याहुः न किंचिदिति । न किंचिदवेदिषमित्यज्ञानं पापं अनुस्मरणं दर्शनं सुखमस्वाप्सं न किंचिदवेदिषम् इति सुषुप्त्यनुभवः संपूर्णः । संस्कारोद्बोधमनु- लक्षीकृत्य स्मरणमनुस्मरणम् । शेषमिति । भगव इति पाठे त इत्यस्य लोपः भगव इति छेदोत्र बोध्यः । भाष्यं व्याचक्रुः अत्रेति । बुद्धान्ताय जागरिताय आद्रावणमागमनं व्यासुः सकाशाद्गमनम् । तस्य कृतित्वेन जानातीच्छति यतते इत्यत्रेच्छापरित्यागेन ज्ञानानुमापकत्वम् । अत आद्रावणकृतः दर्शनस्य पुण्यपापज्ञानस्यावापः दृष्ट्वैव पुण्यमित्यादौ । न च सुषुप्तावनुभवो बाधक इति वाच्यम् । श्रौतत्वेन दर्शनस्यानुभवस्याबाधकत्वात् । कृत्वकारणसादर्शनसोद्भापञ्च जीवस्य साक्षित्वेन वर्तमानस्य दर्शनं पुण्यादिदर्शनम् । ततोपीति सुषुप्तेरपि न वा असक्तत्वात् । अत्रेति न वा असक्तत्वम् । तस्येति जीवस्य । अग्रिमेति प्रश्नस्तु श्रुत्युपन्यास उक्तः । एवमित्यादीति एवमसङ्गं जीवं मोक्षयोग्यत्वेन ज्ञात्वा सुषुप्तौ सत्यां सतिसप्तम्याः सामानाधिकरण्यमर्थः सुषुप्तिः समानाधिकरणं सुषुप्तावित्यस्यार्थः । तथा च सुषुप्तिरूपमकामं भगवन्तं जनको ज्ञात्वा । यद्वा सुषुप्तौ अकामरूपे भगवति एवं जीव- मिति योजना । अत्र भगवतश्चोक्तिकातात्पर्यमाहुः तद्दातृत्वेनेति । भगपदार्थेषु केनचिद्यदातृत्वम् । उत्तरस्येति । अत्र याज्ञवल्क्यो बिभयांचकार मेधावी राजेति मां तेम्य उदरौत्सीदित्युक्त्वा स यत्रानि- मानं न्येति जरया वोपवतपता बानिमानं निगच्छति यथाऽम्रोडुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते एवमेवायंऽशारीर आत्मैभ्योऽङ्गेभ्यः संप्रमुच्य प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैवैक्युत्तरस्य । कामप्रश्नवेति । ननु भाष्ये निर्बन्धेनेति हेतुरस्ति यस्य किं प्रयोजनमिति चेन्न । सर्वं ज्ञास्यतीति १०१ ब्र० सू० २०