भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 90, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 90

भाष्यप्रकाश-रश्मि-परिवृंहितम् । भाष्यप्रकाशः । वेदान्तार्थविकासकाद्भुतपदं शास्त्रं गुणैकोज्ज्वलम् ॥ २ ॥ एवं सर्वहितं चरन्नपि यदाखिद्यत्तदा नारदात् तत्रोपायमवेत्य खेदहतये दृष्ट्वा समाधौ हरिम् । श्रीमद्भागवतेन संशयमहन् भक्तिप्रचारोधत- र्तं कृष्णं मुनिमानमामि करुणं ज्ञानावतारं हरेः ॥ ३ ॥ सर्गादौ स्वमतं समस्य विधये यं ब्रह्मवादं जगौ कौन्तेयोद्धवयोः प्रकाश्य च पुनर्वेदान्तसारं हरिः । तं व्यासास्यगोचरं प्रथयितुं यैर्भाष्यमाविष्कृतं तानाचार्यवरान्नमामि करुणान् श्रीवल्लभाख्यान् प्रभून् ॥ ४ ॥ श्रीवल्लभप्रतिनिधिं तेजोरारिं दयार्णवम् । गुणातीतं गुणनिधिं श्रीगोपीनाथमाश्रये ॥ ५ ॥ श्रीविट्ठलेशपादाब्जनखचन्द्ररुचः सदा । [L