भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 91, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 91

४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । तत्पुत्रान् सह सूनुभिर्निजगुरून् श्रीकृष्णचन्द्राह्वयान् भक्त्या नौमि पितामहं यदुपतिं तातं च पीताम्बरम् । वन्दे च व्रजराजमन्वयमणिं यद्रोचिषा मादृशो- ऽप्यासीन्मूर्ध्नि कृपापरः प्रभुवरः श्रीबालकृष्णः स्वयम् ॥ ७ ॥ श्रीवल्लभाचार्यपदाम्बुजाते भक्त्या मुदान्तर्हृदि संनिवेश्य । भाष्यप्रकाशे प्रयतेऽतिदीनो निःसाधनस्तत्करुणाबलेन ॥ ८ ॥ आचार्यवाचः प्रणमामि भाष्यसुबोधिनीस्था इतराश्च यास्ताः । मत्स्वान्त आगत्य कृपामृतास्ता मदीयवाचां रचयन्त्वलंकृतिम् ॥ ९ ॥ अथ स्वलौकिकानुभावप्रकटनहृदयस्य भगवत आज्ञया तदर्थमाविर्भूताः श्रीमदाचार्या- रश्मिः । सर्वानैव मान्यान् नमन्ति तत्पुत्रानिति ॥ ७ ॥ ग्रन्थकरणे स्वप्रतिभाहेतुं वदन्तस्तत्करणं प्रतिजानते श्रीवल्लभाचार्येत्यादि । त्रिष्टुप्जातिः । इन्द्रवज्राछन्दः । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति तलक्षणात् । भाष्यप्रकाश इति । प्रकाश- शब्द आतपं वक्ति । भाष्यसमाप्तौ 'आविष्कृतोऽयं भुवि भाष्य भास्करः' इति भाष्यस्य भास्करत्वोक्तेः । निमित्तत्वं सप्तम्यर्थः ॥ ८ ॥ 'मूर्तैर्महद्भिः' इति न्यायेन प्रार्थयन्ते आचार्यवाच इत्यादि । उपजातिः । 'अनन्तरोदीरित- लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् । गाथाछन्दः । वस्तुतस्तु रचयन्तु भूषामिति पाठः प्रतिभाति । तथा चाख्यानकीछन्दः 'आख्यानकी तौ जगुरू गमोजे जातावनोजे जगुरू गुरुश्चेत्' इतिलक्षणात् । ओजे विषमे पादे । अनोजे समे । हस्ताक्षरपुस्तके त्वयमपाठः, अन्याक्षरैर्लिखितश्च । आगत्य कृपामृता इत्यनेन वाचामाधिदैविकत्वं ध्वन्यते ॥ ९ ॥ भाष्यमवतारयन्ति अथेत्यादिना । भाष्ये परसवर्णभावस्तु वैकुण्ठस्थतास्फोटकः, न व्याकरण- विरोधाधायकः । सत्यलोक एव परसवर्णश्रवणात् । आकाशवाणीवत् । तथाहीति निदर्शनगर्भश्लो- कैस्त्वस्तु प्रक्षभावात् । यतः सत्यलोकमभिव्याप्यैव तथाहीति प्रयोगो मया श्रुतः पूर्ववदेव । सोपि मान्ये क्वचिदेव दृश्यते । वैकुण्ठस्थता तु श्रीमदाचार्याणां ब्रह्मभावेन सर्वरूपत्वात् स्फुटैव । 'नमामि हृदये शेषे लीलाक्षीराब्धिशायिनम् । लक्ष्मीसहस्रलीलाभिः सेव्यमानं कलानिधिम्' इति- दशमश्रीसुबोधिनीप्रारम्भश्लोकात्, असंधिस्तु शिवादिभिरपि अकरणात् तस्याः । युक्तं चैतत् सारोत्र । अथेति, अथशब्दः आरम्भार्थकः । न त्वानन्तर्यार्थकः, आचार्यैः सूत्रपाठात् पूर्वं मङ्गलकरणात् । तथा चाहुराचार्याः सुबोधिन्यामथ व्याख्या इति । निबन्धाद्यानन्तर्यं वा तदर्थः । स्वलौकिकानुभावो ब्रह्मवादलक्षणो (पत्रावलम्बनोक्तः ) मायावादव्यतिरिक्तः । स्वस्य ब्रह्मणोऽ- लौकिको लोकोत्तरोऽनुभावो ब्रह्मज्ञानमनु पश्चाद्भावो भक्तिः प्रेम च योगिकोऽर्थः, रूढो भिन्नः । कीदृ- गित्याकाङ्क्षायां ब्रह्मणो वादो यत्र स्वलौकिकानुभावेन 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः'इति 4

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 91, कुल 2600 में से · BharatKosha