अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 907, कुल 2600 में से
संदर्भ में पढ़ें८१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० १३ सू० ४२ भाष्यप्रकाशः । साक्षिपारमात्मनोर्वाचकमित्यवस्थाद्वयसाधारणम् । तत्र आत्मा इत्यनेन जीवात्मानमनूद्य, ब्रह्मैव लोक एवेति विधीयते । तत्र मुक्तिपक्षे जीवस्य ब्रह्मत्वविधानम् । सुषुप्तिपक्षे लोकत्वविधानम् । सम्राडिति राज्ञः संबोधनम् । अतोऽत्र श्लिष्टस्योपसंहार इत्यर्थः । एतेन सुषुप्तिव्याख्याने बीजं प्रदर्शितम् । याज्ञवल्क्यभयानुरोधादिदमेतावत् सुषुप्तिपरत्वेन व्याख्यातम् । अग्रे च वरदानुरोधान्मुक्तिपरत्वेन व्याख्यास्यत इति न कोऽपि क्वापि संदेहः । एतदग्रे, सोऽहं रश्मिः । सिकत्वादशरीर इति] अनस्थिकत्वांशे सती माया अस्थीनामनस्थिकदेहेष्वदर्शनात् । अत्रानस्थिक- पदात्तददर्शनमुक्तं तथा च न विद्यन्तेऽस्थीनि यस्मिन् सोऽस्थिकः । दर्शनविषयत्वेन संप्र