अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 911, कुल 2600 में से
संदर्भ में पढ़ें८१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० १३ सू० ४२ रश्मिः । 'यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् संदेहे गहने प्रविष्टः । सविश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव' ॥ भाष्ये यस्यानुवित्तैरिति पाठः । अस्मिन् प्रसिद्धे संदेहे संदिह्यते उपचीयते तेजोबन्नादि- भूतैरिति संदेहः ऋहलोर्ण्यत् । यकारलोपश्चान्दसः । तकारागमः । तस्मिन् किं लक्षणे गहने आध्यात्मिकाद्यनेकार्यसंकीर्णत्वात् दुर्विषये प्रविष्टः आत्मा यस येन ब्राह्मणेनानु ब्रह्मज्ञानमनुवित्तो ज्ञातो भक्त्यापि प्रतिबुद्धः प्रति प्रतिनिधी प्रतिनिधिरूपसर्वात्मभावरूपबोधविषयः । ब्राह्मं चेति रूपविशेषणस्य श्रुतावुक्तेः स सर्वात्मभाववान् भक्तो वा विश्वकृदित्यादि । तस्येश्वरस्य लोकोऽक्षरः 'आत्मा यावत्प्रपञ्चोभूत्तावद्वै रमते हरिः' इति 'सोन्तःकरणसंबन्धि तिरोधत्ते हरिश्च स