अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 912, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ८१९ भिन्नैङ्गस्तुतिः। तद्विज्ञानं च। पुनरेतदेव स्पष्टतयोपदिशति । स वा अयमात्मे- भाष्यप्रकाशः। मिति । सद्योमुक्तिभाजां ज्ञानवतां ब्रह्मभावेन ब्रह्मप्राप्तिवचनम् । शेषं स्फुटम् । शेषसार्धमाहुः पुनरित्यादि । अत्रैतद् बोध्यम् । यस्यानुवित्त इत्यस्योत्तरार्धे, स विश्वकृदित्यादिना यत् सर्वकर्तृत्वमुक्तं तत् स वा एष आत्मा सर्वस्य वशीत्यारभ्य, सेतुर्विधरण इत्यन्तेन स्पष्टीकृतम् । तस्य लोक इत्युक्तं लोकाधिपत्यं च, एषां लोकानामसंभेदायेत्यनेन । यत् पुनः पूर्वार्धे, यस्या- नुवित्त इत्यादिनेोक्तम्, अग्रिमश्लोकेषु तत् तमेतं वेदानुवचनेनेत्यारभ्य आन्तं स्फुटीकृतमिति । रश्मिः। द्युलोरसतः सकाशात्सुलभसन्तं प्राप्नोति यः पूजादिकर्ता नानाभेद इव पश्यति किं तु 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' पश्यति । अनु कर्मज्ञानभक्तीरनुद्रष्टव्यम् । पूजादि- कर्तृद्गुरोश्चात् विभक्तमिवेत्युक्तार्थः । तदाधायकगुणा विभक्तसादृश्यादयस्तद्दर्शनमस्ति विज्ञानं च— 'विरजः पर आकाशादज आत्मा महान् ध्रुवः'। 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत्'॥ इति । विगतं रजो धर्माधर्मादिलक्षणं यस्मात् स विरजः महान् परिमाणतः । धीरो धीमान् धीर्धार- णावती बुद्धिः तया विज्ञाय मोक्षेतरत्वेन ज्ञात्वा भक्तिविषयत्वेन विज्ञाय 'भगवदीयत्वेनैव परिसमाप्तसर्वाधीः' इति वाक्यात् । एवं शास्त्रोक्तज्ञानविषयं कृत्वा प्रज्ञां सिद्धान्तमुक्तावल्युक्त- संरापनेन प्रत्यचं कुर्वीतित्यर्थः । विग्लापनं साकारसानन्दमूर्तेस्तत्तन्मूर्तिष्वनादरकर्तृ । बहुष्वादरो न संभवतीति सुबोधिन्थाः । एतावान् भाष्ये विज्ञानपदार्थः स्तुतिश्च अत्र द्वौ श्लोकौ सार्धौ यतः पठितावतोष्टा श्लोकाः । प्राणस्येनेत्र श्लोकद्वयमिति नवमिरिति भाष्यम् । अत्र्यमित्यन्त एकः मनसेति द्वितीयः । आप्तत्वात् । पुनरिति भाष्यमवतारयामासुः शेषेति । कथमुपदिशतीत्यत आहुः अत्रेति 'स वा एष आत्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किं च स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयानेष भूताधिपतिरेष लोकेश्वर एष लोकपालः स सेतुर्विधरण एषां लोकानामसंभेदाय' अत्र भगवत्स्तुतिर्विज्ञानं चैकत्रोच्यते । उत्कर्षा- धायकगुणवर्णनं स्पष्टं शाब्दं विज्ञानं च वशमस्यास्तीति वशी । साधुना वेदविहितेन । असाधुना वेदनिषिद्धेन सर्वस्य वश्यादिकं स विश्वकृदित्यादिना सर्वकर्तृत्वमुक्तम्, तन्निर्धार्यमित्येकवाक्यता । उत्पत्तिस्थितिप्रलयानां परस्परनिर्वाहकत्वम् । स भगवान् सेतुः सिनोति बध्नातीति सेतुः । रूपप्रपञ्च- करणात् । वर्णाश्रमादिव्यवस्थाविधारकः अत उक्तं स्पष्टीकृतमिति । तस्य लोक इति तस्य भगवतो लोकोऽक्षरः इति प्राप्तं लोकाधिपत्यम् । किमर्थं लोकाधिपत्यमित्याकाङ्क्षायामाह एषां भूरादिप्रब्रह्मलोकान्ता- नामाधिदैविकानामसंभेदायासांकार्याय एकवर्णता माभूदिति । तमेतमिति 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतमेवं विदित्वा मुनिर्भवत्येतमेव प्रवाजिनो लोकमभीप्सन्तः प्रव्रजन्ति एतद्धस्म वै पूर्वे ब्राह्मणाः अनूचानाः विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोयमात्माऽयं लोक इति ते ह स्म तु पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षुचर्यां चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा उभे ह्येते एष यवतः । स एष नेति नेत्यात्माऽग्राह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गोऽसितो न सज्यते 819