अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 926, कुल 2600 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । वेदान्ताधिकरणमाला । श्रीपुरुषोत्तमविरचिता । प्रथमोऽध्यायः । श्रीबालकृष्णमाचार्यं प्रभून् श्रीविट्ठलेश्वरान् । व्यासाचार्यांश्चहृत्पद्मे प्रणमामि पुनः पुनः ॥ भाष्यप्रकाशे विस्तीर्णेऽर्थोऽवगन्तुं न शक्यते । सर्वैस्ततोऽर्थं सङ्गृह्य न्यायमाला वितन्यते ॥ २ ॥ तत्र तावद् व्यासचरणैर्मन्दजनानुग्रहार्थं सर्ववेदार्थरूपस्य ब्रह्मणः स्वरूपसाधनफलमतान्तर- निराकरणभेदेन चतुर्धा विचारोऽत्र शास्त्रे क्रियते । तत्र सर्ववेदार्थरूपं ब्रह्मैवेति ज्ञापयितुं चतुर्लक्षण्यां तत्सम्बन्धि सर्वं विचारितम् । तत्र प्रथमेऽध्याये सर्वेषां वेदान्तानां ब्रह्मण्येव समन्वयः, वेदार्थ- निश्चयश्च वेदान्तविचाराधीन इति सर्वोऽपि वेदो ब्रह्मण्येव प्रमाणमित्युक्तम् । द्वितीये च श्रुतीनां परस्परविरोधपरिहारेण विरुद्धस्मृतीनां दूषणेन च ब्रह्मैव प्रमेयमिति निर्णीतम् । ततस्तृतीयेऽ