भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 927, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 927

२ वेदान्ताधिकरणमाला । ततो द्वितीये एकसूत्रे जन्माद्यधिकरणे ब्रह्म किंलक्षणं किंप्रमाणं चेत्याकाङ्क्षायां जगदुत्पत्तिस्थितिकारणं ब्रह्मेति सूत्रांशेन लक्षितम् । ततोंशान्तरेण वेदरूपशास्त्रप्रमाणकं ब्रह्मेत्युक्तम् । तेन कर्तृरूपं निमित्ततया सिध्यति ॥ २ ॥ ततस्तृतीये एकसूत्रे समन्वयाधिकरणे ब्रह्म जगतः कर्तृ निमित्तं चेति चेत्, किं जगतः समवायीत्याशङ्कायामनारोपितानागन्तरूपेण समनुगमाद्ब्रह्मैव जगतः समवायीति निर्णीतम् । तेनाभिन्ननिमित्तोपादानवादोऽस्मिन् शास्त्र इति बोधितम् ॥ ३ ॥ एवं त्रिसूत्र्या ब्रह्मणो जिज्ञासा ब्रह्मलक्षणं तद्विचारस्य कर्तव्यता च साधिता । ये पुनः कर्तृत्वे वैषम्यादयो दोषाः, समवायित्वे च विकृतत्वादयः, ते सर्वेऽग्रिमाध्याये परिहर्तव्याः, विचारकर्तव्यतायाः प्रतिज्ञातत्वात् । तत्र सच्चिदानन्दरूपत्वस्य ब्रह्मणः स्वरूपलक्षणत्वात्पूर्वोक्तं