अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 928, कुल 2600 में से
संदर्भ में पढ़ेंसूत्रसिद्धावशक्य, मयटः प्राचुर्यार्थकत्वान्न मयट्प्रत्ययेनाब्रह्मत्वं वक्तुं शक्यत इत्यंशान्तरेण समाहितम् । ततस्तृतीये सूत्रे आनन्दजनकत्वेन तत्कारणत्वान्मयटो विकारार्थत्वं निवारितम् । ततश्चतुर्थसूत्रे 'सत्यं ज्ञान'मितिमन्त्रे योर्थ उक्तः स एव संपूर्णे प्रपाठके प्रपञ्चय गीयते, अत आनन्दमयो ब्रह्मैवेति निर्णीतम् । ततः पुनरग्रिमया चतुःसूत्र्यायमवार्थो निषेधमुखेन निर्णीयते । तत्र प्रथमेन जीवस्यानन्दमयत्वं निराक्रियते, जीवे निरङ्कुशजगत्कर्तृत्वादिरूपस्य माहात्म्यस्यानुपपद्यमानत्वात् । द्वितीये 'आनन्दीभवती'त्यादिना जीवस्यानन्दनीयत्वमुच्यते, न त्वानन्दत्वम्, अतो भेदव्यपदे- शादपि जीवस्य नानन्दमयत्वमित्युक्तम् । ततस्तृतीये 'सोकामयते'तिचेतनधर्मस्य कामस्य जडायां प्रकृतावनुपपद्यमानत्वात्सापि नानन्दमयीत्युच्यते । ततश्चतुर्थस्य जीवस्यानन्द