अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 930, कुल 2600 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमविरचिता । ५ एवं प्रथमपादे कार्यप्रतिपादकानां वाक्यानां ब्रह्मणि समन्वयो विचारितः । प्रकृतिप्रत्यय- भेदेन शब्दसाम्यपरत्वसंदेहे तन्निवारणं च कृतम् । अतःपरं द्वितीयादिष्वर्थसंदेहो निवारणीयः । जीवजडतत्समुदायभेदेनार्थस्य त्रैविध्यात् । तत्र द्वितीयपादे जीवपुरःसरेणार्थसंदेहो निवारणीयः । अन्तर्यामिप्रतिपादकानां वाक्यानां ब्रह्मणि समन्वयो वक्तव्यः । तेन पादानामेककार्यत्वं संगतिः । तत्र प्रथमे चतुःसूत्रे सर्वत्र प्रसिद्धोपदेशाधिकरणे छान्दोग्यस्था शाण्डिल्यविद्या विचार्यते । तत्रास्यां विद्यायां ‘मनोमयः प्राणशरीर’इत्यनेन विज्ञानमयस्य जीवस्य मनोमयत्वादिधर्म- वैशिष्ट्ये तत्रैव च धर्मैः कर्तृत्वनिर्वाहाद्ब्रह्मणो जगत्कर्तृत्वमपि नोपपद्यत इत्याशङ्कायां, जीवस्य ब्रह्मत्वेनोपासनं निवार्य, सर्ववेदान्तप्रसिद्धस्य ब्रह्मण एवोपदेशाद्ब्रह्मवात्रोच्यत इति प्रथमसूत्रे आक्षेपनिवारणादाक्षेपोधिकरणसंगतिरित्युक्तम् । ततो द्वितीयसूत्रेस्यां विद्यायां फलत्वेन विवक्षिता ये गुणास्तेषां प्राप्तिर्भगवत्स्वरूपलाभात् तत्सारूप्यलाभाद्वोपपद्यते, अतोपि तथेत्युक्तम् । ततस्तृतीय- सूत्रे तिरोहितानन्दत्वेन निराकारत्वादपि नात्र जीव उच्यते, किंतु ब्रह्मैवेत्युक्तम् । ततस्तुरीये सूत्रात्र ध्येयत्वेन प्राप्तत्वेन च व्यपदिश्यते, जीवस्तु प्राप्तृत्वेन ध्यातृत्वेन च व्यपदिश्यत इत्युक्तम् । तेनात्रान्तर्यामिभूतं ब्रह्मैवोच्यत इति साधितम् ॥ १ ॥ ततो द्वितीये चतुःसूत्रे शब्दविशेषाधिकरणे वाजिशाखास्थं ‘यथा व्रीहिर्वा यवो वे’त्यादिविषयवाक्यमुपन्यस्य, तत्रान्तरात्मन्युक्तो हिरण्मयः पुरुषो न जीवः, किंतु ब्रह्मैव, शब्देनोक्ताद्धिरण्मयत्वरूपाद्विशेषादित्युक्तम् । ततो द्वितीये सूत्रे ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठती’ति गीतास्मृतेरपि हृद्देशे वर्तमानस्य ब्रह्मत्वमित्युक्तम् । ततस्तृतीयसूत्रे व्यापकस्येश्वरस्याल्पे हृदयस्थाने स्थितेरयुक्तत्वाच्छ्रुतौ व्रीह्यादितुल्यताश्रावणाच्च तस्य ब्रह्मत्वं न युक्तमिति सूत्रांशेनाशङ्कां- शान्तरेण समाहितम् । हृदये निदिध्यासने कृते ब्रह्म ज्ञातुं शक्यते, तत्रैव साक्षात्कारात् । तस्माद् हृदयस्य स्थानत्वमुच्यते । अन्ये त्वत्र दृष्टान्तमप्याहुर्यथा सर्वलोकपतिरप्योध्यापतिरिति । तस्मान्न व्यापकत्वहानिः । यत्पुनब्रीह्यादितुल्यत्वकथनं तु चतुर्विधभूतान्तरवर्तित्वज्ञापनार्थम् । अतो व्योमवत्सर्वत्र स्थितिर्र्बोध्यते । तस्मान्न दोष इत्युक्तम् । ततश्चतुर्थसूत्रे तस्य हृदये वर्तमानत्वे जीववत्सुखदुःखभोगोपि संभवतीति सूत्रांशेनाशङ्कांशान्तरेण समाहितम् । तस्य स भोगो न संभवति, तस्य सर्वरूपत्वानन्दरूपत्वादिरूपाणां विशेषाणां विद्यमानत्वादिति । तस्माद्ब्रह्मैवात्रोच्यते । इदं चाधिकरणमन्तर्यामिणो रूपनिश्चयार्थं हिरण्मयपुरुषत्वेनान्तस्तद्धर्माधिकरणविषयवाक्योक्ताकारस्य मासाग्निहोत्रे नित्याग्निहोत्रधर्मवद्वक्तुं शक्यत्वादिति मम प्रतिभाति । संगतिरत्र प्रसङ्गो बोध्यः ॥ २ ॥ ततस्तृतीये द्विसूत्रे अत्ता चराचरेत्यधिकरणे ‘यस्य ब्रह्म च क्षत्रं चे’तिकाठकवाक्योक्तं ब्रह्मक्षत्रात्तृत्वं न जीवस्य, किंतु ब्रह्मण एवेति निर्धारितम् । तत्र प्रथमसूत्रे चराचरग्रहणं हेतुः, चरो मृत्युरचरं कस्याप्यचात्यम्, ब्रह्मक्षत्राणां संपद्यमानानां भोगः साधितः, सर्वरूपत्वात्मकं वैशिष्ट्यं च । द्वितीयसूत्रे च प्रकरणं हेतुः । तथा च जीवाशक्यभोगस्य चराचरस्य ग्रहणरूपालिङ्गादस्य वाक्यस्य ब्रह्मप्रकरणपठितत्वाच्चात्रोक्तं ब्रह्मैवेति सिध्यति । मोक्षापेक्षितब्रह्मक्षत्रप्राणानामुत्क्रमणाभावे- नान्तःप्रकटे भगवत्येव लयादन्तर्यामित्वमपि सिद्धम् पूर्वाधिकरणे ब्रह्मणो जीवविलक्षणस्य भोगस्यो- क्तत्वात्तत्साधनायात्रोपबोधातेनानन्दरूपाद्वैशेष्यात्संपन्नजीवसाहचर्येन भोगो विचारितः, अन्तर्यामि- धर्मविचारस्यैव प्रकृतत्वादिति ॥ ३ ॥ 833