भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 931, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 931

ततश्चतुर्थे द्विसूत्रे गुहां प्रविष्टावित्यधिकरणे 'ऋतं पिबन्ता'विति काठकवाक्यं विषयत्वेनोपन्यस्यात्र जीवद्वयं नोच्यते, किंतु जीवब्रह्मणी उच्येते । अत्र जीवब्रह्मणोरेव प्रतिपाद्य- त्वदर्शनात् । इतः पूर्वं 'येयं प्रेते विचिकित्सा'इति 'अन्यत्र धर्मा'दिति वाक्यद्वयेन तयोरेव पृष्टत्वा- दिति पूर्वसूत्रे उक्तम् । ततो द्वितीयसूत्रे पूर्वप्रकरणोक्तविशेषणबलादप्यत्र जीवब्रह्मणी एवोच्येते इति साधितम् । पूर्वाधिकरणोक्तब्रह्मक्षत्रभोगोत्रैवेतिज्ञापनाथम् । तेनानुप्रसङ्गः संगतिः ॥ ४ ॥ ततः पञ्चमे पञ्चसूत्रे अन्तर उपपत्तेरित्यधिकरणे छान्दोग्ये उपकोसलविद्यायां 'य एषोऽक्षिणि पुरुषो दृश्यत'इतिवाक्यं विषयत्वेनोपन्यस्य अक्षिपुरुषस्य ब्रह्मत्वं निर्धारितम् । तत्र प्रथमसूत्रे आर्षदर्शनसोपपद्यमानत्वान्न तत्र प्रतिबिम्बस्य ब्रह्मत्वेनोपासना विधीयते, किंतु ब्रह्मैवेत्युक्तम् । ततो द्वितीयसूत्रे सर्वलोकस्य भामवामनयनरूपस्थानादिव्यपदेशात्तदेव साधितम् । ततस्तृतीयेऽमृतादिपदकथनादपि तत्साधितम् । ततश्चतुर्थसूत्रे तदुपासकस्य ब्रह्मविद्गतिकथनादपि तत्साधितम् । ततः पञ्चमसूत्रे जीवो निवारितः । एवं चात्र पञ्चसूत्र्यां स्थानमाहात्म्यादिरूपं वैशेष्यं बोधितम् । अक्षिस्थितस्य भोगस्तु वाजिनां मण्डलब्राह्मणे प्रसिद्धः । एवमधिकरणत्रयेण भोगदोषासंसर्गहेतुभूतं वैशेष्यमक्षिस्थितस्य पुरुषस्यान्तर्यामित्वं च विचारितम् ॥ ५ ॥ ततः षष्ठे त्रिसूत्रे अन्तर्याम्यधिकरणे बृहदारण्यकस्थमन्तर्यामिब्राह्मणं विषयवाक्यत्वे- नोपन्यस्य । अन्तर्यामी सर्वत्रैकः, अथवाधिदेवादिष्विन्द्रभेदवद्भिन्नः, तत्तदभिमानी जीवो वेत्याशङ्क्य प्रथमसूत्रे पृथिव्यादीनां तदभिमानिनां च ये धर्मास्तेषां भगवत्ययुक्तत्वबोधनादन्तर्यामी सर्वत्र भगवानवेति निर्णीतम् । आधिदैवादिसम्बन्धोऽपि स एवेति च । ततो द्वितीयसूत्रेऽन्तर्यामी ब्रह्मवादे न प्रसिद्धः, जीवब्रह्मजडानामेव प्रसिद्धत्वात् । ततोऽन्तर्यामी साङ्ख्यपरिकल्पितः कश्चिद्भविष्यतीत्याशङ्क्य, नात्र साङ्ख्यमतम्, तद्धर्माणामनभिलापात्, अतोऽन्तर्यामी भगवानवेति ब्रह्मवादसिद्ध इत्युक्तम् । ततस्तृतीयसूत्रेऽन्तर्यामी जीवो न संभवति, काण्वशाखायां 'यो विज्ञाने तिष्ठ'न्निति माध्यन्दिनीयशाखायां च 'य आत्मनि तिष्ठ'न्नितिवाक्याभ्यां जीवाद्भेदस्य श्रावणादित्युक्तम् । अस्मिन्नधिकरणे स्थितिकर्तृत्वनिर्वाहकतयोपोद्धातेन सर्वनियमनं विचारितम् । गुहांप्रविष्टावित्यधिकरणे प्रतिगुहं भिन्नतया प्रवेशादन्तर्यामिणां भेदे प्राप्ते तदभावाय तस्यैक्यमत्र साधितम् । तेन रूपभेदाद्भिन्नोऽप्येक एवान्तर्यामी नामेत्युक्तं भवति ॥ ६ ॥ ततः सप्तमे त्रिसूत्रे अदृश्यत्वाधिकरणे 'अथ परा यया तदक्षरमधिगम्यत' इति मुण्डकस्थं वाक्यं विषयत्वेनोपन्यस्येयमुपनिषत् साङ्ख्यविद्या ब्रह्मविद्या वेत्याशङ्क्येयं ब्रह्मविद्यैव । यद्यप्यत्राक्षरं पुरुषश्चेत्युभयमुच्यते, पुरुषस्याक्षरात्परत्वं चोच्यते, एवं परापरभावेप्यक्षरं परमात्मैवेति निर्णीतम् । तत्र प्रथमसूत्रे अदृश्यत्वादिगुणकोऽक्षरत्वेनोक्तः परमात्मैव, विश्वजनकत्वरूपस्य ब्रह्मधर्मस्य तत्रोक्तेरित्युक्तम् । ततो द्वितीयसूत्रे अत्राक्षरपुरुषौ साङ्ख्यविद्यासिद्धप्रकृतिपुरुषावे- त्याशङ्क्य, तौ नात्र संभवतः, अक्षरस्य सर्वज्ञत्वादिन पुरुषत्वेन च विशेषणात्, पुरुषस्य च दिव्यत्वादिन प्राणादिजनकत्वेन च विशेषणात् । न हीदं साङ्ख्ये सिध्यति । किंच, अत्र हि समाप्तावादौ मध्ये च ब्रह्मविद्या इति विद्याविशेषणमुक्तम् । तस्मादपि नात्र साङ्ख्यसिद्धौ प्रकृतिपुरुषावित्युक्तम् । ततस्तृतीयसूत्रे 'अग्निर्मूर्धे'त्यादिना यद्रूपमुक्तं तद्विश्वकायस्य ब्रह्मण एव संगच्छते न तु साङ्ख्यसिद्धस्येत्युक्तम् । तेन सृष्टिपूर्वदशायामप्यक्षरनियामकत्वाद्भगवतोऽन्तर्यामित्वं नित्यमित्युपोद्घातेने बोधितम् ॥ ७ ॥

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 931, कुल 2600 में से · BharatKosha