अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 931, कुल 2600 में से
संदर्भ में पढ़ेंततश्चतुर्थे द्विसूत्रे गुहां प्रविष्टावित्यधिकरणे 'ऋतं पिबन्ता'विति काठकवाक्यं विषयत्वेनोपन्यस्यात्र जीवद्वयं नोच्यते, किंतु जीवब्रह्मणी उच्येते । अत्र जीवब्रह्मणोरेव प्रतिपाद्य- त्वदर्शनात् । इतः पूर्वं 'येयं प्रेते विचिकित्सा'इति 'अन्यत्र धर्मा'दिति वाक्यद्वयेन तयोरेव पृष्टत्वा- दिति पूर्वसूत्रे उक्तम् । ततो द्वितीयसूत्रे पूर्वप्रकरणोक्तविशेषणबलादप्यत्र जीवब्रह्मणी एवोच्येते इति साधितम् । पूर्वाधिकरणोक्तब्रह्मक्षत्रभोगोत्रैवेतिज्ञापनाथम् । तेनानुप्रसङ्गः संगतिः ॥ ४ ॥ ततः पञ्चमे पञ्चसूत्रे अन्तर उपपत्तेरित्यधिकरणे छान्दोग्ये उपकोसलविद्यायां 'य एषोऽक्षिणि पुरुषो दृश्यत'इतिवाक्यं विषयत्वेनोपन्यस्य अक्षिपुरुषस्य ब्रह्मत्वं निर्धारितम् । तत्र प्रथमसूत्रे आर्षदर्शनसोपपद्यमानत्वान्न तत्र प्रतिबिम्बस्य ब्रह्मत्वेनोपासना विधीयते, किंतु ब्रह्मैवेत्युक्तम् । ततो द्वितीयसूत्रे सर्वलोकस्य भामवामनयनरूपस्थानादिव्यपदेशात्तदेव साधितम् । ततस्तृतीयेऽमृतादिपदकथनादपि तत्साधितम् । ततश्चतुर्थसूत्रे तदुपासकस्य ब्रह्मविद्गतिकथनादपि तत्साधितम् । ततः पञ्चमसूत्रे जीवो निवारितः । एवं चात्र पञ्चसूत्र्यां स्थानमाहात्म्यादिरूपं वैशेष्यं बोधितम् । अक्षिस्थितस्य भोगस्तु वाजिनां मण्डलब्राह्मणे प्रसिद्धः । एवमधिकरणत्रयेण भोगदोषासंसर्गहेतुभूतं वैशेष्यमक्षिस्थितस्य पुरुषस्यान्तर्यामित्वं च विचारितम् ॥ ५ ॥ ततः षष्ठे त्रिसूत्रे अन्तर्याम्यधिकरणे बृहदारण्यकस्थमन्तर्यामिब्राह्मणं विषयवाक्यत्वे- नोपन्यस्य । अन्तर्यामी सर्वत्रैकः, अथवाधिदेवादिष्विन्द्रभेदवद्भिन्नः, तत्तदभिमानी जीवो वेत्याशङ्क्य प्रथमसूत्रे पृथिव्यादीनां तदभिमानिनां च ये धर्मास्तेषां भगवत्ययुक्तत्वबोधनादन्तर्यामी सर्वत्र भगवानवेति निर्णीतम् । आधिदैवादिसम्बन्धोऽपि स एवेति च । ततो द्वितीयसूत्रेऽन्तर्यामी ब्रह्मवादे न प्रसिद्धः, जीवब्रह्मजडानामेव प्रसिद्धत्वात् । ततोऽन्तर्यामी साङ्ख्यपरिकल्पितः कश्चिद्भविष्यतीत्याशङ्क्य, नात्र साङ्ख्यमतम्, तद्धर्माणामनभिलापात्, अतोऽन्तर्यामी भगवानवेति ब्रह्मवादसिद्ध इत्युक्तम् । ततस्तृतीयसूत्रेऽन्तर्यामी जीवो न संभवति, काण्वशाखायां 'यो विज्ञाने तिष्ठ'न्निति माध्यन्दिनीयशाखायां च 'य आत्मनि तिष्ठ'न्नितिवाक्याभ्यां जीवाद्भेदस्य श्रावणादित्युक्तम् । अस्मिन्नधिकरणे स्थितिकर्तृत्वनिर्वाहकतयोपोद्धातेन सर्वनियमनं विचारितम् । गुहांप्रविष्टावित्यधिकरणे प्रतिगुहं भिन्नतया प्रवेशादन्तर्यामिणां भेदे प्राप्ते तदभावाय तस्यैक्यमत्र साधितम् । तेन रूपभेदाद्भिन्नोऽप्येक एवान्तर्यामी नामेत्युक्तं भवति ॥ ६ ॥ ततः सप्तमे त्रिसूत्रे अदृश्यत्वाधिकरणे 'अथ परा यया तदक्षरमधिगम्यत' इति मुण्डकस्थं वाक्यं विषयत्वेनोपन्यस्येयमुपनिषत् साङ्ख्यविद्या ब्रह्मविद्या वेत्याशङ्क्येयं ब्रह्मविद्यैव । यद्यप्यत्राक्षरं पुरुषश्चेत्युभयमुच्यते, पुरुषस्याक्षरात्परत्वं चोच्यते, एवं परापरभावेप्यक्षरं परमात्मैवेति निर्णीतम् । तत्र प्रथमसूत्रे अदृश्यत्वादिगुणकोऽक्षरत्वेनोक्तः परमात्मैव, विश्वजनकत्वरूपस्य ब्रह्मधर्मस्य तत्रोक्तेरित्युक्तम् । ततो द्वितीयसूत्रे अत्राक्षरपुरुषौ साङ्ख्यविद्यासिद्धप्रकृतिपुरुषावे- त्याशङ्क्य, तौ नात्र संभवतः, अक्षरस्य सर्वज्ञत्वादिन पुरुषत्वेन च विशेषणात्, पुरुषस्य च दिव्यत्वादिन प्राणादिजनकत्वेन च विशेषणात् । न हीदं साङ्ख्ये सिध्यति । किंच, अत्र हि समाप्तावादौ मध्ये च ब्रह्मविद्या इति विद्याविशेषणमुक्तम् । तस्मादपि नात्र साङ्ख्यसिद्धौ प्रकृतिपुरुषावित्युक्तम् । ततस्तृतीयसूत्रे 'अग्निर्मूर्धे'त्यादिना यद्रूपमुक्तं तद्विश्वकायस्य ब्रह्मण एव संगच्छते न तु साङ्ख्यसिद्धस्येत्युक्तम् । तेन सृष्टिपूर्वदशायामप्यक्षरनियामकत्वाद्भगवतोऽन्तर्यामित्वं नित्यमित्युपोद्घातेने बोधितम् ॥ ७ ॥