अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 935, कुल 2600 में से
संदर्भ में पढ़ेंप्रयोजनमित्याकाङ्क्षायां पूर्वप्रकरणे सत्नामकस्य ब्रह्मणो ज्ञानेन ब्रह्मसुखरूपं फलमुक्तम् । तदपेक्षायां तादृशं ब्रह्मज्ञानमावश्यकम् । तत्र सच्छब्देनामृतस्य जीवस्य, तिच्छब्देन मर्त्यस्य जडस्य, यच्छब्देनो- भयनियामकस्य ब्रह्मण उक्तत्वात् । नियम्यद्वयज्ञानाभावे नियामकस्य ब्रह्मणो ज्ञानासंभवात् । तदर्थं शब्दोक्तस्य नियम्यस्य जीवस्य स्वरूपज्ञानाय जीवपरामर्शः, न तु प्रकरणित्वेनेत्युक्तम् । ततोऽष्टमे भवत्वेवं तथाप्यल्पे हृदयपुण्डरीके आकाशरूपस्य ज्यायसो ब्रह्मणः स्थितिर्न संभवतीत्यतो जीव एवोच्यतामित्याशङ्कायां 'निचाय्यत्वादेवं व्योमवच्चे'त्यत्र विरुद्धधर्माश्रयत्वेन ब्रह्मणः स्थितिर्वक्तुं शक्ये- त्युक्तम् । तादृशत्वस्यात्राप्यनुसंधेयत्वात्तेन तत्समाधिसिद्धिरिति दहरः परमात्मैव । अत्र बुद्धिस्थस्य विचारादुपोद्घातधर्मः प्रसङ्गः सङ्गतिः । किं च, परामर्शसूत्रे जीवस्य सर्वावस्थासु ब्रह्म